________________
चतुर्थे कृत्प्रत्ययाध्याये षष्ठः क्त्वादिपादः
५२३ [क० त०]
ननु विकल्पेनोदाहरणं कृधातोरेव दर्शयितुमुचितम्, तत् कथं भुजधातोर्दर्शितमिति? सत्यम्, अलंपूर्वः कृञ् प्रायेण भूषण एव वर्तते, अतो धात्वन्तरेण दर्शितम्, तर्हि 'अलं कृत्वा' इत्यत्र कथं प्रतिषेधार्थो गम्यते इति चेत्, न। समासाभावस्तत्र प्रतिषेधार्थस्य गम्यमानत्वात्। अन्यथा भूषणार्थे भूषणादेरनादरेष्विति वचनाद् यत्र समासः क्रियते तत्रैव भूषणं गम्यते इति अलंकृत्येति सिद्धम्। अन्य आह– अव्ययत्वाद् वाशब्दस्य व्यवस्थावाचित्वमभ्युपगम्य कृधातोर्न दर्शितमिति। अपरस्त्वाह-वाग्रहणसामर्थ्यादेव न दर्शितमिति, अन्यथा वासरूपत्वादन्ये प्रत्यया: सिध्यन्त्येव। न च शासुयुधीत्यादौ वाग्रहणसामर्थ्यात् स्त्र्यधिकारात् परेषु न वासरूपविधिरिति वाच्यम्, तस्य प्रकरणान्तरितत्वादिति। तर्हि (तन्त्र) विभाषाग्रे इत्यत्र टीकायां क्त्वा-णमविधानेन वासरूपविधिर्नास्तीत्युक्तम्, तस्मात् सार्थकमेव वाग्रहणम्, कथं तस्य सामर्थ्य वक्तव्यमिति भावः। अलंखल्वोरिति किमिति प्रतिषेधार्थ इत्यास्ताम् इत्याशङ्कार्थः। प्रतिषेधोऽर्थो यस्यासौ प्रतिषेधार्थः शब्दस्तस्मिनित्यर्थः।
निश्चयोऽत्रेति। अलंशब्दस्याभिधानकारेण प्रयुक्तत्वात् प्रसिद्धत्वम्, अतो नात्र तस्योक्तिः। पञ्ज्यां व्यङ्गविकलत्वाद इति विकलो दरिद्रः, शून्य उपलक्ष्यते एकाङ्गशून्येनैव प्रत्युदाहरणं युक्तमित्यर्थः। भावेऽपि कर्तृत्वमस्तीति तर्हि कथं वुणतुमावित्यत्र वुणग्रहणं तृजादिनिवृत्त्यर्थं तुमभावमेवाभिधत्ते इति तुमो बाध्यबाधकभावः इत्युक्तम्? सत्यम्, आख्यातं क्रियाप्रधानं क्त्वाप्रत्ययवाच्योऽपि भाव: प्रधानमिति समानविषयतया युज्यते। अत्र कृदन्तद्वये वुणः कर्तृत्वं तुमश्च भाव इति कुत: समानविषयता। तर्हि कथम् इच्छार्थेष्वेककर्तृकेषु तुमित्यत्र तुम् भावे भवतीति प्रत्ययश्च कर्तरीति कथं तस्य बाधकः स्यादित्युक्तम्। आख्यातस्य क्रियाप्रधानत्वेन समानविषयत्वात्? सत्यम्, कर्तृत्वमात्रमाश्रित्य तत्रोक्तम्। अत्र तु तस्याश्रयणं नास्तीति बोध्यं टीकायाम्।
[पाठान्तरम् -
प्रतिषेधार्थत्वादिति शक्यसम्बन्धः प्रतिपादितः। कारण इति कारणे शब्दे कार्यस्यार्थस्योपचारादित्यर्थः। विचित्रा हीति। केचित्तु प्रतिषेध इत्युक्ते निषेधविषयेऽलंखल्वोरित्यर्थोऽपि स्यात्। ततश्च नञादियोगेऽपि विषयतया नालं करोमि लिङ्गस्येत्यत्र, मा खलु दानं कन्याया इत्यत्र च स्यादिति वदन्ति। कृदव्ययो भाव इत्यादि यदि कर्तरि स्यात् तदा कृत्वा देवदत्तेनेत्यादिषु तृतीया न स्यात्। वस्तुत इति। भोजनं न किञ्चित् प्रयोजनम्, तस्मादिदं न विधेयमित्यर्थः]||१२८६।
[समीक्षा]
‘अलं कृत्वा, खलु कृत्वा' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'क्त्वा' प्रत्यय का वैकल्पिक विधान किया गया है। पाणिनि का सूत्र है“अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा''(अ० ३।४।१८)। अत: उभयत्र समानता ही है।