________________
अथ चतुर्थे कृदध्याये षष्ठः क्त्वादिपादः १२८६. अलंखल्वोः प्रतिषेधयोः क्त्वा वा [४।६।१]
[सूत्रार्थ
प्रतिषेधार्थक ‘अलम्-खलु' शब्दों के उपपद में रहने पर धातु से वैकल्पिक 'क्त्वा प्रत्यय होता है।।१२८६।
[दु०वृ०]
अंलखलुशब्दयोः प्रतिषेधार्थयोरुपपदयोर्धातोः क्त्वा भवति वा। अलं कृत्वा, खलु कृत्वा। अलं भोजनेन. खलु भोजनेन। अलंखल्वोरिति किम्? मा कार्षीः। प्रतिषेधार्थयोरिति किम्? अलंकारो निष्कस्य, खलु दानं कन्यायाः। निश्चयेऽत्र खलुशब्द:।।१२८६।
[दु० टी०]
अलम्। प्रतिषेधवाचित्वात् प्रतिषेधौ। कारणे कार्योपचार इत्याहप्रतिषेधार्थयोरिति। प्रतिषिध्यते आभ्यां वा प्रतिषेधोऽसंज्ञायामपि करणे घञ्। प्रतिषेधेऽलंखल्वोरिति न कृतं प्रतिषेधे वर्तमानयोरिति विचित्रा हि सूत्रस्य कृतिरिति भावः। कृदव्ययो हि भावेऽभिधानात्। अलं कृत्वा, न कर्तव्यमित्यर्थः। अलं भोजनेन, खलु भोजनेन, किम्भोजनेनेत्यर्थः। वस्तुतो भोजनमेव प्रतिषेध्यमिति युक्तं करणे चेयं तृतीयेति अलं भोजनम्, खलु भोजनमिति नोदाहृतं सुबोधत्वात्। एवमुपसर्गसमासश्चअलं प्रकृत्य,खलु प्रकृत्य। यद्यप्येवं भावे धात्वर्थव्याप्तिरस्तीति कर्मविभक्तियुज्यते, निष्ठादित्वात् षष्ठी प्रतिषिध्यते। 'तदलं प्रतिपक्षमुन्नतेरवलम्ब्य व्यवसायबन्ध्यताम्' इति। सत्यप्युपपदत्वे धातोः प्रागभावो न भवतीत्युक्तभेव। ननु मा कारिति व्यङ्गविकलं कर्तरि विहितत्वात्, इदं तु युक्तं मा कारि देवदत्तेनेति? सत्यम्', भावेऽपि पदान्तरकर्तृकसम्बन्धोऽत्र वरं पदार्थे एककर्तृकत्वविवक्षेति नास्ति व्यङ्गविकलता।। १२८६।
[वि०प०]
अलं०। प्रतिषेधवाचित्वादलंखलशब्दावुपचारात् प्रतिषेधावित्याह-प्रतिषेधार्थयोरिति। मा कार्षारिति। ननु कथमिदं प्रत्युदाहरणम्? द्वयङ्गविकलत्वात्, इदं कर्तरि, क्त्वा च भावे, कृदव्ययस्य भावेऽभिधानात् क्त्वाप्रत्ययाथों भावोऽपि नास्त्येव।. इदं तु युक्तम्-मा कारि देवदत्तेन? सत्यम्, भावेऽपि कर्तृत्वमस्ति केवलं पदान्तरसम्बन्धाद् गम्यते, अन्तरण हि भवितारं न भाव इति। अत्र तु पदार्थ एव कर्तेति नास्ति द्वयङ्गविकलभावः।।१२८६।