SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृदध्याये पञ्चमो घञादिपादः ५१९ [वि० प०] धातु०। अर्थद्वारको हि शब्दानां शब्दान्तरैः सह सम्बन्धः, न तु स्वाभाविकः इत्याह - धात्वर्थानामिति। सम्बन्धो विशेषणविशेष्यभावलक्षणः, तत्र विशेषणं कृदन्तो विशेष्यश्च त्याद्यन्त:, वाक्यस्य तत्प्रधानत्वादित्याह – न त्वित्यादि। त्यादयः पुनर्विशेषणस्य कृदन्तस्य काले साधवो न भवन्ति, ते हि साध्यधात्वर्थे विधीयमाना: प्राधान्यभाजः, न च प्रधानानामप्रधानानुयायित्वमुचितम् । प्रधानभावस्यैवाभावप्रसङ्गादिति। सूत्रं त्वित्यादि। ननु कथं सुखार्थम् ? न ह्यन्तरेणैतद्वचनमतीतविहितो णिनिर्भविष्यति विहितायाः श्वस्तन्या: काले भविष्यन् लक्षणेन साधुर्भवितुमर्हतीति। तथाहि यद्यग्निष्टोमेनेष्टवान् तर्हि न जनिता अथ जनिता न तर्हि इष्टवान् । एवं यदि कृत: कटस्तर्हि न श्वो भविता, अथ यदि श्वो भविता न तर्हि कृत: कटः। एवं हि यदि भाविकृतं न तर्हि आसीदिति, अथासीन्न तर्हि भावि कृतम् । परस्परविरुद्धयोः सामानाधिकरण्यस्यानुपपत्तेरिति? सत्यम् । एवं मन्यते अग्निष्टोमयाजी पुत्रोऽस्य जनितेत्यखण्डमेवेदं वाक्यम् । अस्मिंश्च पदानि यथास्वं कालमेव व्युत्पाद्यन्ते तत्र च समुदायार्थप्रतीत्यनुरोधेन विशेष्यस्य प्रधानस्य सम्बन्धे तदनुयायित्वाद् विशेषणस्योपपदस्य कालान्यत्वं गम्यते, न ह्यन्यथा वाक्यार्थसङ्गतिः स्यादिति युक्तमुक्तमुपपदस्य कालान्यत्वमिति। तस्मात् पदान्तरसम्बन्धोपस्थितत्वाद् वाक्यार्थ एवायं बहिरङ्गः, न च वाक्यार्थः पदार्थमन्तरङ्गसम्बन्धं बाधते, येन यथास्वमसिद्धिः प्रत्ययानां स्यात् , अतो न कस्यचित् कालान्तरवृत्तिः स्वकालपरित्यागो वाऽस्ति, अपि तु वाक्यार्थापेक्षयैव भविष्यत्कालप्रतीतिरित्यनर्थकमेवेदम् उदाहरणमात्रं चेदं स्याद्यन्तं त्याद्यन्तस्य कालमन्यातीति। यदा त्याद्यन्तमपरस्य त्याद्यन्तस्य विशेषणं स्यात् तदा तस्यापि वाक्यार्थापेक्षया विशेष्यस्य कालानुप्रवेशो भवत्येव। यथा साटोपमुर्वीमनिशं नदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी। तान्येकदेशान्निभृतं पयोधेः सोऽम्भांसि मेघान् पिबतो ददर्श।। अस्यार्थः- साटोपं यथा स्याद् अनिशं नदन्तो यैरम्भोभिरमी मेघाः समन्तादुर्वी प्लावयिष्यन्ति तानि पयोधेरेकदेशान्निभृतं पिबतो मेघान् ददर्श। अत्र यै: प्लावयिष्यन्ति अस्य भविष्यदर्थस्य ददशेति सम्बन्धाद् भूतार्थानुगम: कवेरभिप्रेत इति प्लावितवन्त इत्यर्थ।।१२८५। ।।इत्याचार्यश्रीमत्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्जिकायां चतुर्थे कृदध्याये पञ्चमो घजादिपादः समाप्तः।। [क० च०] धातु०। ननु धातोः प्रत्ययाः भवन्तस्तदर्थसम्बन्धेनैव भवन्ति प्रत्ययवाच्यानां
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy