________________
५१८
कातन्त्रव्याकरणम्
१२८५. धातुसम्बन्धे प्रत्ययाः [४।५।११३] [सूत्रार्थ]
विशेषणविशेष्यभावापन्न धात्वर्थसम्बन्ध के विषय में कृत्संज्ञक प्रत्यय अपने काल को छोड़कर विशेष्यरूप धात्वर्थ के काल में साधु होते हैं, परन्तु त्यादि प्रत्यय साधु नहीं होते।।१२८५। _[दु० वृ०]
धात्वर्थानां सम्बन्धे विशेषणविशेष्यभावलक्षणे स्वं कालं त्यक्त्वा विशेष्यस्य धात्वर्थस्य काले कृत्सङ्घका: प्रत्यया: साधवो भवन्ति, न तु त्यादयः, साध्यविहितत्वात्। सूत्रं त्विदं सुखार्थमेवेति। अग्निष्टोमयाजी पुत्रोऽस्य जनितेति अग्निष्टोमयाजी । भूते णिनिः। जनितेत्यनेन सम्बन्धे भविष्यति काले साधुर्भवति। एवं कृतः कट: श्वो भविता, भावि कृत्यमासीत् । भविष्यति विहितो णिनिरतीते सिद्धः। प्रकरणबलात् कृतो लब्धाः, प्रत्ययग्रहणं सामान्यार्थम् । गोमानासीत् , गोमान् भविता। गोमानिति वर्तमाने मन्तरासीदित्यनेन सम्बन्धेऽतीते सिद्धः, भवितेत्यनेन च भविष्यतीति।।१२८५।
।।इत्याचार्यदुर्गसिंहप्रणीतायां वृत्तौ चतुर्थे कृदध्याये पञ्चमो घत्रादिपादः समाप्तः।।
[दु० टी०]
धात्।। शब्दानां स्वार्थेन सह सम्बन्धो न शब्दान्तरः। सम्बन्धो हि नाम विशेषणविशेष्यलक्षणः। स चार्थानामेव सम्भवति न धातूनामित्याह – धात्वर्थानामित्यादि। त्यादयस्तु स्वं कालं त्यक्त्वा विशेषणधात्वर्थस्य काले साधवो न भवन्ति साध्यत्वाद् धात्वर्थविहितास्त्यादयो हि प्रधानं प्रधानानुयायिनश्चेति गुणा भवन्तीति। सूत्रमित्यादि। ननु अग्निष्टोमेन य इष्टवान् स कथं जनितेति सूत्रमन्तरेण भूतभविष्यतो: सामानाधिकरण्यसम्बन्धं प्रतिपद्येत यजनादयं भविष्यत्कालव्यपदेशो न तु जन्मतोऽभिधीयते इति। परमार्थतः पुनरखण्डमेवेदं वाक्यं न कोऽपि स्वं कालं त्यक्त्वा कालान्तरं याति, पदवाच्यो हि कालोऽन्तरङ्गो वाक्यगम्यश्च बहिरङ्ग इति निवृत्तिरपि स्यात् । स्याद्यन्तस्त्याद्यन्तमर्थं प्रविशतीत्युपलक्षणं त्याद्यन्तोऽपि दृश्यते।
साटोपमुर्वीमनिशं नदन्तो यैः प्लावयिष्यन्ति समन्ततोऽमी।
तान्येकदेशानिभृतं पयोधेः सोऽम्भांसि मेघान् पिबतो ददर्श।। अत्र ये: प्लावयिष्यन्ति तान्यम्भांसि पिबतो मेघान् ददर्शति त्याद्यन्तस्याभविष्यदर्थावगमः कवेरभिप्राय इति।।१२८५।। ।। इत्याचार्यदुर्गसिंहकृतायां कातन्त्रवृत्तिटीकायां चतुर्थे कृदध्याये पञ्चमो घत्रादिपादः समाप्तः।।