________________
५२०
,
कर्त्रादीनां प्रतीयमानत्वात् तत् किमनेन सूत्रेण चेद् अभिप्रायापरिज्ञानाद् यस्माद् धातोः प्रत्ययान्तस्य सम्बन्धे प्रत्ययाः साधवः इति नार्थ:, किन्तु अन्येषां धात्वर्थानां सम्बन्धेऽन्येभ्यः प्रत्ययेन भवता कथमन्येषां धातूनामर्थे सम्बध्यते चेद् उच्यते, शृणु यदैकस्मिन् वाक्ये क्रियाद्वयमुक्तम् - एकं विशेषणमन्या विशेष्या एका अतीता अन्या भविष्यन्ती। यथा अग्निष्टोमयाजी पुत्रोऽस्य जनितेति विशेषणाज्जातप्रत्ययो विशेषार्थसम्बन्धे तस्य काले साधुरिति, न तु त्यादयः कृदन्तकाले साधवो न भवन्ति, किन्तु त्यादयः स्याद्यन्तानां काले भविष्यन्त्येव । तथा च वक्ष्यति - तत्साधनत्वादिति पञ्जी, तत्प्रत्ययाद्यन्तं प्रमाणं प्रधानं यत्र वाक्येऽखण्डमिति एतेन वाक्याच्चोपोद्धृत्य पदानि संस्क्रियन्ते इति समर्थितम्, उपपदस्य समीपोच्चारिपदस्य विशेषणीभूतस्येत्यर्थः । पदेति वाक्यार्थ एवायं बहिरङ्गः कुत इत्याह पदान्तरेति। पदान्तरस्य यः सम्बन्धस्तेनोपस्थितोऽर्पितो यत इत्यर्थः। उदाहरणं स्याद्यन्तम् । अग्निष्टोमयाजीत्यादि पञ्जी इत्याद्यन्तस्य जनितेत्यादेः कालमनुप्रविशतीति यदुक्तं तदुदाहरणमात्रं किन्त्वन्यदपि बोध्यमित्यर्थः । यदा कृदन्तमपरकृदन्तस्य विशेषणं स्यात् तदापि कालान्यत्वं भविष्यति । यथा कुर्वन् देवदत्तः स्थितवान् इत्यादि। ननु ये प्लावयिष्यन्ति प्लावनं करिष्यन्ति तान् ददर्शेत्यर्थोऽपि घटते, तत्कथमस्य विषय इत्याह – यैरिति । एतेन भविष्यत्यपि अर्थसङ्गतिरस्त्येव किन्तु कवेरभिप्रायो न भवति ? सत्यम् सङ्गत्या भूत एवार्थो घटते यतः इति
भावः ।। १२८५ ।
कातन्त्रव्याकरणम्
,
—
"
।। इति श्रीविद्याभूषणाचार्यसुषेणशर्मकविराजकृते कलापचन्द्रे चतुर्थे कृदध्याये पञ्चमो घञादिपादः समाप्तः । ।
[समीक्षा]
भूतकाल आदि में किए गए प्रत्ययों से सिद्ध होने वाले शब्दों का उनसे भिन्न
वर्तमान आदि काल के साथ सम्बन्ध बताने के लिए दोनों ही आचार्यों ने सूत्र बनाए “धातुसम्बन्धे प्रत्ययाः” (अ०३ | ४ | १) | इस प्रकार उभयत्र
है
हैं। पाणिनि का सूत्र सर्वविध समानता है।
[विशेष वचन ]
१. सूत्रं त्विदं सुखार्थमेव (दु० वृ० ) |
२. प्रत्ययग्रहणं सामान्यार्थम् (दु० वृ० ) ।