________________
५१६
कातन्त्रव्याकरणम्
[वि० प० ]
प्रेष्याति । ऊर्ध्वं मुहूर्तादिति । प्रेष्यादिषु गम्यमानेषूर्ध्वं मुहूर्ताद् उपरि मुहूर्तस्येत्यर्थः । प्रैष्यादिष्वित्यादि। प्रेष्यप्राप्तकालयोरपि सप्तमी पञ्चमी स्यादिति दर्शितम् । तथाहि ''पञ्चम्यनुमतौ'' (३|१|१८) इति । एवमूर्ध्वं मुहूर्तादपि सप्तमीपञ्चम्य प्रयोगतश्चेति वचनात् प्रतिपत्तव्ये। यथा ऊर्ध्वमुहूतात् प्रेषितो भवान् कटं कुर्यात्, कटं करोतु भवान्, भवता कटः क्रियते क्रियतां वा । तस्मादेते बाधिके स्तः इति वक्तव्यमुक्तम् ।।१२८२ ।
[क० च० ]
प्रेष्याति०। प्रैष्यप्राप्तकालयोः पञ्चम्येव विहिता न तु सप्तमी, तथा च परसूत्रं "प्रैष्यातिसर्गप्राप्तकालेषु पञ्चमी, सप्तमी चोर्ध्वमौहूर्त्तिके" (अ०३।३।१६३, १६४) इति चकारात् पञ्चमी च। अत एव पञ्जिकायां प्रेष्यप्राप्तकालयोरपि पञ्चमीत्युक्तम्, यच्च विध्यादिषु सप्तमी चेत्यत्र वृत्तावुक्तं प्रेष्यप्राप्तकालयोरपि सप्तमी पञ्चमी स्यादेवेत्युक्तम्, तच्च प्रैष्यप्राप्तयोः पञ्चमी और्ध्वमौहूर्तिके सप्तमीत्यप्यध्याहार्यम्, व्यस्तेनान्वय इति व्याख्यातं कुलचन्द्रेण । अपिशब्दात् पञ्चमीत्यर्थः, तस्मात् प्रेष्यप्राप्तकालयोरिति सप्तमीपञ्चम्याविति मोक्तिर्न सङ्गच्छते । । १२८२ ।
[समीक्षा]
'भवता ग्रामो गन्तव्यः, गमनीयः गम्यः' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने कृत्यसंज्ञक प्रत्ययों का विधान किया है। पाणिनि का सूत्र है “प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च” (अ०३।३।१६३)। अत: उभयत्र समानता ही है।
[विशेष वचन ]
१. हेमोक्तिर्न सङ्गच्छते (क० च० ) । [रूपसिद्धि]
1
१-७. भवता ग्रामो गन्तव्यः, गमनीयः, गम्यः । गम् + तव्य, अनीय, यत् सि। भवता कटः कर्तव्यः, करणीयः, कृत्यः कार्यः । कृ + तव्य, अनीय, यत्, यण् + सि। कर्तव्यः, करणीयः, कृत्यः कार्यः कटो भवता । 'गम् - कृ' धातुओं से 'तव्य, अनीय, यत्, यण् ' प्रत्यय, गुण-वृद्धि तथा विभक्तिकार्य।। १२८२ ।
१२८३. आवश्यकाधमर्णयोर्णिन् [ ४ । ५ । १११]
J
[ सूत्रार्थ]
अवश्यम्भाव तथा अधमर्ण अर्थ के गम्यमान होने पर धातु से कर्ता. 'अर्थ में 'णिन्' प्रत्यय होता है ।। १२८३ ।
[दु० वृ० ]
अवश्यम्भावे गम्यमानेऽधमर्णे च कर्तरि धातोर्णिन् भवति । अवश्यंदायी, अवश्यंकारी । अधमर्णे च शतंदायी, सहस्रंदायी मे भवान् ॥१२८३।