SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृदध्याये पञ्चमो घञादिपादः ५१५ [रूपसिद्धि] १-२. कन्यायाः खलु भवान् वोढा । वह् + तृच् + सि। अध्येता खलु भवान् शास्त्रस्य। अधि + इङ् + तृच् + सि। 'वह, अधि - इङ्' धातुओं से प्रकृत सूत्र द्वारा ‘तृच् ' प्रत्यय, ओकार, इकार को गुण तथा विभक्तिकार्य ।। १२८० । १२८१. शकि च कृत्याः [ ४।५ । १०९ ] [ सूत्रार्थ] शक्ति तथा अर्हता अर्थ वाली धातु से कृत्यसंज्ञक 'यत् ' इत्यादि प्रत्यय होते हैं ।। १२८१ । [दु० वृ० ] शकनं शक्। शक्त्यर्थविशिष्टाद् धातोरर्हत्यर्थविशिष्टाच्च कृत्या भवन्ति । भवता खलु कन्या वोढव्या, वहनीया, वाह्या, उह्येतेति च ।। १२८१ । [वि० प० ] शकि च० । इदमपि पूर्ववदेवाधिकर्तव्यमिति । बाधिकां सप्तमीं दर्शयन्नाह उद्येतेति च। अन्यथा एतदेव स्याद् इति भावः । । १२८१ । [समीक्षा] 'भवता खलु कन्या वोढव्या' इत्यादि शब्दों की सिद्धि दोनों ही आचार्यों ने 'कृत्य' प्रत्ययों से की है। पाणिनि का सूत्र है " शकि लिङ् च' (अ०३।३।१७२)। अतः उभयत्र समानता ही है। - [रूपसिद्धि] १-४. भवता खलु कन्या वोढव्या, वहनीया, वाह्या, उह्येत । 'वह' धातु से 'तव्य, अनीय, यण् ' प्रत्यय, सप्तमी विभक्ति (पाणिनि-लिङ् लकार) तथा विभक्तिकार्य।।१२८१ १२८२. प्रैष्यातिसर्गप्राप्तकालेषु [४।५।११०] [ सूत्रार्थ] 'प्रैष्य - अतिसर्ग - प्राप्तकाल' अर्थों के गम्यमान होने पर धातु से कृत्यसंज्ञक प्रत्यय होते हैं ।। १२८२ । [दु० वृ० ] प्रेष्यादिषु गम्यमानेषु धातोः कृत्या भवन्ति । प्रेषितस्त्वम् भवता ग्रामो गन्तव्य:, गमनीय:, गम्यः । अतिसर्गोऽनुमतिः । गुरुणाऽनुज्ञातस्त्वम् । भवता कटः कर्तव्यः, करणीयः, कृत्यः कार्यः । प्राप्तस्ते कालः कटकरणे । कर्तव्यः, करणीयः, कृत्य:, कार्यः कटो भवता । ऊर्ध्वं मुहूर्तात् कर्तव्यः इत्यपि वक्तव्यम् । प्रैष्यादिषु पञ्चमी सप्तम्युक्ता सा बाधिका स्याद् इति वचनम् ॥१२८२। 1
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy