________________
५१४
कातन्त्रव्याकरणम्
ओदनं भोक्तुं नास्ति। दुर्भिक्षोऽयं कालः, ततश्च ओदनं भोक्तुं नास्तीति। एवंविषये कर्मतैव ओदनस्य न कर्तृता। यदोदनस्य भोजनासद्भाव एव प्रतिपाद्यो न पुनरोदनासम्भव इति। उपोच्चारीति पञ्जी। एवम्भूतानि भोजनकारणानीत्यर्थः।।१२७९। _ [समीक्षा]
‘कालो भोक्तुम् , वेला भोक्तुम् ' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'तुम् ' प्रत्यय तथा पाणिनि ने 'तुमुन् ' प्रत्यय किया है – “कालसमयवेलासु तुमुन्' (३।३।१६७)। अत: अनुबन्धभेद को छोड़कर अन्य प्रकार की उभयत्र समानता ही है।
[विशेष वचन] १. उच्चारणं तु वक्तुरायत्तम् (दु० वृ०)। [रूपसिद्धि
१-८. भोक्तुं काल:। भोक्तुं समय:। भोक्तुं वेला। शक्तो भोक्तुम् । समर्थो भोक्तुम्। पर्याप्तो भोक्तुम् । प्रभु क्तुम् । अलं भोक्तुम् । 'भुज् ' धातु से 'तुम् ' प्रत्यय, उपधागुण तथा विभक्तिकार्य।।१२७९।
१२८०. अर्हतौ तृच् [४।५।१०८] [सूत्रार्थ] योग्यतार्थक धातु से 'तृच् ' प्रत्यय होता है।।१२८०। [दु० वृ०]
अर्हत्यर्थविशिष्टाद् धातोस्तृज् भवति। कन्यायाः खलु भवान् वोढा, अध्येता खलु भवान् शास्त्रस्य। प्रयोगतश्चेति अहें शक्तौ च सप्तमी, सा बाधिका यथा स्यादिति वचनम् । भवान् खलु कन्यामुद्वहेत। अर्हः शक्त इत्यर्थः।।१२८०।
[वि० प०]
अर्हतौ। अथ किमर्थमिदम् ? सामान्येन तृच् सिद्ध एवेत्याह – प्रयोगतश्चेति। सप्तम्यर्थमाह - अर्हः शक्त इति। भवानहः, योग्यो भवान् । शक्त: समर्थो वेति भावः।।१२८०।
[क० च०]
अर्ह ०। अहें शक्तौ चेति शक्तौ परसूत्रे कृत्या विधीयन्ते सप्तमीबाधनार्थमिह प्रसङ्गादुक्तम् । अर्हः शक्त इत्यर्थद्वयनिर्देशाद् वाशब्दोऽत्राध्याहार्यः।।१२८०।
[समीक्षा]
'कन्यायाः खलु भवान् वोढा' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'तृच् ' प्रत्यय किया गया है। पाणिनि का सूत्र है – “अहे कृत्यतृचश्च" (अ०३।३।१६९)। अत: उभयत्र समानता ही है।