________________
चतुर्थे कृदध्याये पञ्चमो घादिपादः
५१३
[दु० वृ०]
एषूपोच्चारिपदेषु धातोस्तुमेव भवति। भोक्तुं कालः, कालो भोक्तुम्, भोक्तुं समयः, समयो भोक्तुम्, भोक्तुं वेला, वेला भोक्तुम्, शक्तो भोक्तुम् , समर्थो भोक्तुम्, पर्याप्तो भोक्तुम् , प्रभु क्तुम् , अलं भोक्तुम्। भवतेत्तेर्वा तादर्थ्यस्य प्रतीयमानत्वात्। यथा भोक्तुं मनः, गन्तुकामः, श्रोतुं श्रोत्रम्, द्रष्टुं चक्षुः, योद्धं धनुः, वक्तुं जडः। उच्चारणं तु वक्तुरायत्तमिति। तथा शक्त्यर्थात् – शक्नोति भोक्तुम् , पारयति भोक्तुम्, धृष्णोति भोक्तुम्, जानाति भोक्तुम्, ग्लायति भोक्तुम्, घटते भोक्तुम्, आरभते भोक्तुम्, आलभते भोक्तुम्, प्रक्रमते भोक्तुम्, उत्सहते भोक्तुम्, अर्हति भोक्तुम्, अस्ति भोक्तुम्, विद्यते भोक्तुम् । क्रियायां क्रियार्थायामिति तुम् सिद्ध एव। वुणप्यभिधानाद् द्रष्टव्यः।।१२७९। __ [दु० टी०]
काल०। एष्वित्यादि। कालादयः क्रियाया उपकारि पदं भवति। नन्वेतेषां प्राग भावनियमो नाव्ययेनाणमेत्यत्र व्याख्यात एवेति। तुमेवेति कथमत्र नियम: क्रियार्थक्रियोपपदं न श्रूयते इत्याह – भवते...तेवेति। तादर्थ्यस्य क्रियार्थस्य प्रतीयमानत्वाद् गम्यमानत्वादिति। उच्चारणं त्वित्यादि। भवतेतर्वेति सम्बन्धो यथा भोक्तुं कालो वर्तते। तथेत्यादि। शकपृधृषज्ञाग्लाघटरभलभक्रमसहास्त्यिर्थेषु तुमिति सूत्रं नाद्रियते इत्यर्थः। वुणपीत्यादि। धृषादीनामिति सम्बन्धः शक्यार्थानां नियमः पूर्वेणास्तीति।।१२७९।
[वि० प०]
काल०। एषूपोच्चारिपदेष्विति। उपशब्द: सामीप्ये, तेन समीपोच्चारीणि क्रियाया उपकारीणि यदा कालादीनि पदानि भवन्ति तदेत्यर्थः। न त्वेषां प्राग्भावसमासौ स्त:। नाव्ययेनाणमेति वचनादित्यर्थः। तुमेवेति। अथ कथमत्र नियमः ? न ह्यत्र क्रिया क्रियार्थोपपदं दृश्यते, येन सिद्धे सति नियमायेत्याह – भवतेरित्यादि। कालो भोक्तुं भवति वर्तते वेति क्रियोपपदं गम्यते, तस्याश्च तदर्थस्य भोजनार्थस्य प्रतीयमानत्वान्न कथं क्रियोपपदमस्तीति भावः। गम्यमानक्रियोपपदहेतुकमेव तुमो दर्शयत्रुक्तस्य पक्षस्य प्रमाणमाह-यथेति। इहापि खलु भोक्तुं मनो भवति, वर्तते वेति क्रिया क्रियार्थोपपदम्। गम्यते इति। यथा चात्र तथा कालादिष्वपि सिध्यतीति नियम उच्यते। ननु गम्यमानमवश्योच्चारणीयमित्याह – उच्चारणं त्विति। तथेति। कथन्तर्हि धृषादिधातुप्रयोग इत्याह-क्रियायामित्यादि। तुमेवेति नियमार्थं शकपृधृषज्ञाग्लाघटरभलभक्रमसहास्त्यिर्थेष्विति न वक्तव्यमित्याह-वुणपीति। नियमोऽत्र नेष्यते इति भावः।।१२७९।
[क० च०]
काल०। अस्ति भोक्तुमिति, ओदनस्येति शेषः। एवमोदनो नास्ति भोक्तुमित्यपि भवति। एतेन वुण्तुमाविति भिन्नकर्तर्यपि विधानम् । तथा च - 'अहो दैन्यं लोकानां यत् किमपि नास्ति. भोक्तुम् ' इति। न च भोजनक्रियाया व्याप्यत्वाद् द्वितीया स्यात्, अस्तिक्रियायाः प्राधान्यात् । यथा 'ओदनः पक्त्वा भुज्यते' इति। अद्यैकादशी, ततश्च