________________
५१२
कातन्त्रव्याकरणम् भिन्नकर्तृके विधिरिति तस्मान्नानयोः सूत्रयोः प्रत्यासत्तिविचारः। ततश्च यद्येककर्तृकग्रहणं नास्ति तदा भित्रकत केष्वप्याप्राप्तस्यास्य कोऽर्थः, एककर्तकग्रहणस्थितो भिन्नकर्तृकेष्वप्राप्तस्येत्यर्थः। तुमो विधानमित्यस्य कोऽयमर्थोऽप्राप्तस्य तुम: सम्बन्धिविधानं सूत्रमित्यर्थ इति हेतोर्विधिस्तुमो विधि: स्यादित्यर्थः, न तु विधिसूत्रं विधानमिति। विधीयतेऽनेनेति विधानं सूत्रमिति करणे युट । अत एवाप्राप्तस्यैवेति यदुनं टीकापञ्जिकयोस्तदेककर्तृकग्रहणस्थितावेव बोध्यम् , कुतो दोषावसरः। तथा एककर्तृकष्विति वृत्तिग्रन्थोऽप्यनया रीत्या व्याख्यातव्य:- भित्रकर्तृकेषु विधिर्मा भूदित्यर्थः, न तु विधिसूत्रमित्यर्थः।
नन्विच्छार्थेषूपपदेषु तुमोऽपवादत्वात् तेषूपपदेषु कथं त्यादयः स्युः, अपवादेन तुमा बाधितत्वादित्याह - इच्छन् करोतीति वृत्तिः। अयं हीति पञ्जी। अथ तथापि कथं क्रियार्थोपपदे भविष्यति च तुमो विधानाद् अत्र क्रियोपपदं नास्ति क्रियाथर्थोपपदे भविष्यति च बीजमुक्तमेव? सत्यम् । करोतीति बुद्ध्या इच्छन् प्रवर्तते तींच्छाकरणक्रियोपपदार्थो भविष्यतीति क्रियार्था क्रियाऽस्त्येव, किन्तु भविष्यत्ता नास्ति, अनेन किं सिद्धान्तान्तरं भविष्यति। अथ साहचर्याद् वुणेव नियमेन व्यावर्त्यते इति टीकायामुक्तं तत् कथमयं पक्ष: सङ्गच्छते ? सत्यम् । साहचर्यमनादृत्येदमुक्तं सिद्धान्तान्तरम् । वस्तुतस्तु अनेनैव भावेन टीकायामाह-किञ्च कामप्रकाशन इतीच्छाप्रकाशने, यत्रेच्छा प्रतिपाद्येत्यर्थः। एतेनात्रेच्छा क्रियार्था न भवतीति प्रतिपादितम् ॥१२७८।
[समीक्षा]
'इच्छति भोक्तुम्, कामयते भोक्तुम् ' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'तुम्' प्रत्यय तथा पाणिनि ने 'तमन' प्रत्यय किया है – “समानकर्तकष तमन्” (अ०३।३।१५८)। यहाँ अनुबन्धभेद के अतिरिक्त अन्य प्रकार की उभयत्र समानता ही है।
[विशेष वचन] १. पुनर्वचनं (तुविधानम्) नियमार्थम् (दु० टी०)। २. को हि नाम दृष्टपरिकल्पनां विहायादृष्टं कल्पयति (क० च०)। ३. साहचर्यमनादृत्येदमुक्तं सिद्धान्तान्तरम् (क० च०)। [रूपसिद्धि]
१-२. इच्छति भोक्तुम् । भुज् + तुम् + सि। कामयते भोक्तुम् । भुज् + तुम् + सि। 'भुज्' धातु से प्रकृत सूत्र द्वारा 'तुम्' प्रत्यय, उपधागुण, ज् को ग्, ग् को क् तथा विभक्तिकार्य।।१२७८।
१२७९. कालसमयवेलाशक्त्यर्थेषु च [४।५।१०७] [सूत्रार्थ]
'काल-समय-वेला' तथा 'शक्त्यर्थ' के उपपद में रहने पर धातु से 'तुम्' प्रत्यय होता है।।१२७९।