SearchBrowseAboutContactDonate
Page Preview
Page 549
Loading...
Download File
Download File
Page Text
________________ ५११ चातुर्थे कृदध्याये पञ्चमो घादिपादः करोतीत्यर्थः। प्रभुणा भोक्तुमित्यपप्रयोग एव। प्रभोर्भोजनाय मांसं क्रीणातीत्यादौ न भाववाचिनश्चेत्यनेन युट "युट च'' (४।५।९४) इत्यनेनैव, किन्तर्हि तदन्ताच्च "तादर्थ्य' (२।४।२७) इत्यनेन चतुर्थी, न तु "तुमर्थाच्च भाववाचिनश्च'' (२।४।२८) इत्यनेनेत्याहुः। सागरोक्तिस्तु विलोकनीया। एककर्तृकेष्विति पञ्जी। एतत्तु तत्रैककर्तृकग्रहणाभावेऽपि प्रत्यासत्तिन्यायादिति बोध्यम् । सागरस्तु "वुणतुमौ'' (४।४।६९) इत्यनेन भिन्नकर्तृकायामपि तुम् स्याद् अभिधानात् । समानकर्तृके "वुणतुमौ" (४।४।६९) इत्यस्य विषयो भिन्नकर्तृकत्वापेक्षया एककर्तृकत्वस्य प्रत्यासनत्वाच्चेति मतमसङ्गतम् , 'धावतस्ते पतिष्यति दण्डः' इति प्रत्युदाहरणासङ्गतः। इच्छार्थेष्विति किम् ? 'पाचको व्रजति' इत्यस्यासङ्गतेश्च। अन्यथा इच्छार्थग्रहणाभावे एककर्तृकेषु तुमेवेति नियमे "वुणतुमौ' (४।४।६९) इत्यत्र वुण्ग्रहणं व्यर्थम् । यदि त भिन्नकर्तकेऽपि तस्य विषय: स्यात् तदैव तस्य चरितार्थता नान्यथेति। तथा "कालसमयवेला०" (४।५।१०७) इत्यादिसूत्रे कालो भोत्तुमित्यादयो भवतीत्यध्याहतक्रियासम्बन्धे वुण - तुमावित्यनेनैव सिद्धा इति नियम उक्तः, तत्र भोजनस्य कर्ता देवदत्तादिः कालश्च भवनस्य कति कथं वुण्तुमावित्यनेन सिद्धम् , येन नियमस्तस्माद् भोक्तं प्रभुणा मांसं क्रीणातीति सर्वतान्त्रिकसिद्धस्य वाक्यस्य वाङ्मात्रेण निराकरणमयुक्तम् । तदुक्तं तन्त्रप्रदीपकृता - यथा धावतस्ते पतिष्यतीति प्रत्युदाहरणम्, तेन कर्तृभेदेऽपि तुमा भाव्यमिति निश्चीयते इति। महाकविनिबन्धप्रयोगश्च दृश्यते – तथा च मुरारौ 'कर्तुं वा कश्चिदन्तर्वसति वसुमतीदक्षिणः सप्ततन्तुः'। अथ यदि भिन्नकर्तृकेषु वुण्तुमौ तदा एककर्तृकेष्वपि हि पूर्वेण तुमि सिद्धे इति पञ्जिकाग्रन्थः कथं संगच्छते, तदा एककर्तृकग्रहणमन्तरेण भिन्नकर्तृकेष्वप्राप्तस्यैव तुमो विधानमिति च। तथा चैककर्तृकग्रहणमन्तरेण भिन्नकर्तृकेष्वप्राप्तस्तुम् स्यादिति टीकाग्रन्थो न संगच्छते। अत्र सागरः – सूत्रे ह्यस्मिन्नियमद्वयमाश्रीयते इच्छार्थेष्वेककर्तृकेषु तुमेव भवति। इच्छार्थेषु तुम् एककर्तृकेष्वेवेति टीकापञ्जिकयोस्तु पूर्वेणैव तुमि सिद्धे पुनस्तुमो विधानं नियमार्थमिति सामान्यवचनेन द्वितीयनियम उक्त: वृत्तौ त्वेक एव दर्शित:, अन्योऽपि बोध्यः। प्रथमनियमस्तु भिन्नकर्तृकेषु वुणतुमावित्यनेन प्राप्तस्यापि बाधनार्थः। तथा चैककर्तृकग्रहणस्थितौ एककर्तृकेष्वेवेति नियमाद् भिन्नकर्तृके तुमोऽप्राप्तिरेव तदभावे इच्छार्थेषु तुमेवेति नियमबलादन्यं बाधित्वापि भिन्नकर्तृके तुमो विधिः स्याद् बाधकाभावादिति पूर्वेण तुमि सिद्ध इति यदुक्तं तत् पूर्वेण सामान्येन विधानादेककर्तृकेऽपि बोध्यम् । एककर्तृकग्रहणमन्तरेणेत्यादि यदुक्तं तस्यायमर्थः एककर्तृकग्रहणं विनाप्ययं योगो नियमार्थः, वुण्तुमावित्यनेन सामान्येनापि तुविषयत्वात् सिद्धे सति नियमस्य सम्भवात् । अन्यथा पूर्वसूत्रे प्रत्यासत्तिन्यायादेककर्तृग्रहणाभावेऽपि एककर्तृत्वलाभः। तथात्रापीत्युक्ते कुतो भिन्नकर्तृकेषु प्रसङ्गः, येनैककर्तृकग्रहणाभावे
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy