________________
५१०
कातन्त्रव्याकरणम्
बजतीति। यत्र त क्रियार्थोपपदं न भवति तत्र पाचको व्रजति, सपकारो बजतीत्यर्थः। ओदनं पाचक इच्छाति मा भूत् । साहचर्याद् वुणेव नियमेन व्यावय॑ते भाववाचिनम्नु भवन्त्येव - पाकायेच्छति, पक्तये इच्छति। ननु कथं नियमः इच्छार्थेष्वेककर्तृकेषु सप्तमी विद्यते-इच्छामि भुञ्जाव, कामयते भुञ्जीयेति? सत्यम् , स्वभावाद् भावाभिधायिनस्तुम: कथं कर्तृकर्माभिधायिनी सप्तमी बाधिका स्यात् । न च प्रतिपदं सूत्रमुक्तं "प्रयोगतश्च'' (३।१।१७) इति सा यथा भवति तमपि कथन भवेत् । एकेत्यादि। एककर्तकमन्तरेण भिन्नकर्तृकेष्वप्राप्तेस्तुम् स्यात् । ततश्च राज्ञा भोक्तुमिच्छतीति प्रसज्येत। इच्छन्नित्यादि। इच्छति भोक्तुं तावद् भवति, इच्छन् कर्तुमित्यपि स्यादित्यर्थः। कर्तृत्वमिह विवक्षितं भावे तुम् , किं च कामप्रकाशने तुमभिधीयते, अन्यत्र यथाप्राप्तमिति न दोषः।। १२७८ ।
[वि० प०]
इच्छार्थेषु ।। "वुणतुमौ क्रियायां क्रियार्थायाम्" (४।४।६९) इति सिद्धे नियमार्थोऽयमित्याह – तुमेवेति। एकेत्यादि। एककर्तृकेषु हि पूर्वेण तुमि सिद्धे पुनरत्र तुविधानं नियमार्थं स्यात् । अन्तरेण तु एककर्तृकग्रहणं भित्रकर्तृकेष्वप्राप्तस्यैव तुमो विधानमिति विधिरेव स्यात् । ततो राज्ञो भोक्तुमिच्छतीत्यपि प्रयोगः प्रसज्येत। इच्छनित्यादि। न केवलम् इच्छन् कर्तुमिति स्यादिति भावः। विशेषविहितत्वात् तुमेव स्यादिति न देश्यम् । अयं हि भावे भवति कर्तरि च तिप्रत्ययः कथं तस्य बाधक: स्यादिति।।१२७८।
[क० च०]
इच्छा०। तुमेवेति। ननु कथमिदं वुण्तुमावित्यनेन हि क्रियायां क्रियार्थायामुपपदे तुम् विधीयते, अत्र क्रियार्थग्रहणाभावात् तदभावेऽपि विषयः सम्भवति, अस्य सूत्रस्य यथेच्छतस्तव स्खलनम् । किञ्च भविष्यत्काल एव तस्य विषयः, अस्यापि विषयस्त्रिष्वपि कालेषु स्यात् । अत्राहुः सागरा:-इच्छार्थेष्विति। "सप्तम्युक्तमुपपदम्' (४।२।२), तच्चोपकारि पदमेव गृह्यते न तु पाठकृतप्रत्यासत्तिमात्रम् - "कर्तुं वा कश्चिदन्तर्वसति वसुमती'' इत्यादिप्रयोगानुपपत्तेः। तस्य चानभिसम्बन्धे उपकारित्वं नास्तीति आदरणीयोऽत्र सम्बन्धविशेषः, स च भावे क्रियार्थकत्वरूप एव कल्प्यते अस्य तुमो विधावुपपदस्य तथेष्टत्वात् को हि नाम दृष्टपरिकल्पनां विहायादृष्टं कल्पयति।
ऋजवस्तु तुमस्तथैवाभिधानमिति मत्वा समादधते-तुमेवेति नियम: समानविषयकमेव वुणं व्यावर्तयति, न त् "वुणतचौ" (४।२।४७) इत्यनेन विहितं भिन्नविषयत्वात् । तथा पाचकः इच्छति, पक्ता सूपकारः इच्छतीत्यर्थः। क्रियायां क्रियार्थायां तु न भवत्येव। अस्य व्यावृत्तिबलाद् इच्छार्थेष्वेवेति न विपरीतनियम: वुण्तुमावित्यत्र वुण्तुमोर्वैयर्थ्यात्। ननु यदि वुण्तुमावित्यनेनापि प्रत्यासत्तिन्यायाद् एककर्तृकायां क्रिया मुपपद एव तुम्, तत् कथं होमकर्म कर्तुं भवन्तमहं वृणे इति कंसं हन्तुं नारायणं कथकः प्रयुङ्क्ते इति प्रभुणा भोक्तुं मांसं क्रीणातीति भिन्नकर्तृके तुम् । अत्र कश्चित् स्थितिपदाध्याहारेणान्वयादित्याह-वरणमनुमननं प्रयोजनम् अनुमतिकरणम्। ततश्च होमकर्म करिष्यामीति कृत्वानुमतिं करोति तथा सम्प्रति पातयिष्यामीति कृत्वा कंसं हन्तुं नारायणं नियुक्तं