________________
५०७
चतुर्थे कृदध्याये पञ्चमो घादिपादः धातोरनन्तरभावः कस्येत्याह – खानुबन्धेत्यादि। यदि पुनरीषदादयोऽनन्तरा भवेयुस्तदा तेषामव्ययत्वान्न "ह्रस्वारुषोर्मोऽन्तः'' (४।१।२२) इत्यनेन मकारागमः खानुबन्धस्य प्रयोजनं नास्तीति खलः खकारो व्यर्थ: स्यात् । न च कर्तृकर्मणोर्विहितयोर्मोऽन्तोऽस्तीति, ईषदादीनां व्यवहितत्वात् । तत्र हि खानुबन्धप्रत्ययान्तधातोरिति निमित्तसप्तमी दर्शितेति। यदेत्यादि। अनाढ्यस्याढ्यङ्करणमभूतप्रादुर्भाव:। इहाढ्यस्य सतः किञ्चित् करणमिति नास्त्यभूतप्रादुर्भावः। ननु किञ्चिदपि अभूतप्रादुर्भाव एव क्रियते, तत् कथमसौ न नास्तीति? तदयुक्तम्, अन्तरङ्गत्वादुपपदस्यैवाभूतप्रादुर्भावश्चिन्त्यते, न चाढ्योपपदस्य तदर्थस्य। अत एव बहिरङ्गमन्यत् किञ्चित् क्रियते। यथासङ्ख्यादिति। भवतः कर्तर्युपपदे भवति, अत्र च कर्मोपपदं तत्रानुपूर्वस्य सकर्मकत्वादिति।।१२७५।
[क० च०]
कर्तृ०। चकारादिति। अन्यथा यदि पृथगुपपदं स्याद् ईषदाद्युपपदे पूर्वेणैव सिद्ध इति। व्यर्थोऽयं चकार इति यद्यपीषदादिविशेषणं क्रियाया उपपदस्य च सम्भवति तथाप्युपपदस्यैव गृह्यते, क्रियायाः सन्निहितत्वादिति भावः। उपपदस्याभूतप्रादुर्भावार्थतेति कश्चित्। वस्तुतस्तु अभिधानादत्राभूतप्रादुर्भावो गृह्यते, स च द्वयोरेव सम्भवति, उपपदस्येषदाढ्यस्य तदतिरिक्तस्य च । तत्रेषदाढ्योपपदमन्तरङ्गं तदतिरिक्तं यत्तद् बहिरङ्गम्। अतोऽन्तरङ्गत्वादुपपदस्यैवाभूतप्रादुर्भावार्थता।।१२७५।
[समीक्षा]
'ईषदाढ्यम्भवं भवता, दुराढ्यम्भवम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'खल्' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है - "कर्तृकर्मणोश्च भूकृञोः' (अ० ३।३।१२७)। अत: उभयत्र पूर्ण समानता ही है।
[विशेष वचन] १. करोतेरिहाभूतप्रादुर्भावार्थत्वात् (दु० वृ०)। २. वस्तुतस्तु अभिधानादत्राभूतप्रादुर्भावो गृह्यते (क० च०)। ३. अन्तरङ्गत्वादुपपदस्यैवाभूतप्रादुर्भावार्थता (क० च०)। [रूपसिद्धि]
१-३. ईषदाढ्यम्भवम् । ईषद् + आढ्य + भू + खल् + सि। ईषदाढ्येन भूयते। दुराढ्यम्भवम् । दुर् + आढ्य + भू + खल् + सि। ईषदाढ्यङ्करो भवान् । ईषद् + आढ्य • कृ + खल् + सि। ईषदनायासेनाढ्यं क्रियते। 'ईषद् - दुर् - आढ्य' के उपपद में रहने पर 'भू-कृ' धातुओं से प्रकृत सूत्र द्वारा ‘खल्' प्रत्यय, 'ख् - ल्' अनुबन्धों का प्रयोगाभाव, 'ऊ - ऋ' को गुण, "ह्रस्वारुषोर्मोऽन्तः” (४।१।२२) से मकारागम तथा विभक्तिकार्य।। १२७५।