________________
५०६
कातन्त्रव्याकरणम्
धातोः खल् भवति भावे कर्मणि च । ईषदनायासेन क्रियते ईषत्करः कटो भवता । दुःखेनानायासेन क्रियते-दुष्करः । सुखेनानायासेन क्रियते सुकरः । कृच्छ्राकृच्छ्रार्थेष्विति किम् ? ईषल्लभ्यं धनम् कृपणान्मनागित्यर्थः ।। १२७४ ।
[वि० प० ]
ईषत्॰। करणाधिकरणयोरिति निवृत्तम् । 'भावकर्मणोः कृत्यक्तखलर्थाः” (४।६।४७) इति । खलोऽर्थान्तरे विधानात् । ईषद् इत्यस्य विवरणं यत्नेनानायासेन सुखेनेत्यर्थः।। १२७४। [समीक्षा]
'ईषत्करः, सुकर:' इत्यादि शब्दों को दोनों ही व्याकरणों में 'खल' प्रत्यय से सिद्ध किया गया है। पाणिनि का सूत्र है - "ईषदुः सुषु कृच्छ्राकृच्छ्रार्थेषु खत्" (अ०३ । ३ । १२६)। अतः उभयत्र पूर्ण समानता ही है।
→
[रूपसिद्धि]
१ - ३. ईषत्करः कटो भवता । ईषत् कृ + खल् सि। ईषदनायासेन क्रियते । दुष्करः। दुस् - कृ - खल् - सि । दुःखेनानायासेन क्रियते । सुकरः। सु - कृ - खल् सि। सुखेनानायासेन क्रियते । 'ईषद् दुस् सु' के उपपद में रहने पर 'कृ' धातु से 'खल्' प्रत्यय, 'ख् - ल् अनुबन्धों का प्रयोगाभाव, ऋ को गुण तथा विभक्तिकार्य।।१२७४।
-
"
-
-
+
१२७५. कर्तृकर्मणोश्च भूकूञोः [ ४।५ । १०३ ]
[ सूत्रार्थ]
कर्तृ - कर्म-वाच्य में 'कृच्छ्र - अकृच्छ्र' अर्थों में 'ईषद् दुस् सु' के उपपद में रहने पर ‘भू - कृञ्' धातुओं से 'खल्' प्रत्यय होता है ।। १२७५ ।
-
-
[दु० वृ० ]
ईषदादिषु कृच्छ्राकृच्छ्रार्थेषूपपदेषु कर्तृकर्मणोश्च भूकृञोः खल् भवति यथासङ्ख्यम्। खानुबन्धबलात् कर्तृकर्मणोरेवानन्तर्यम् । ईषदाढ्येन भूयते ईषदाढ्यम्भवं भवता, दुराढ्यम्भवम् । ईषदनायासेनाढ्यं क्रियते इति ईषदाढ्यम्भवो भवान् । यदा तु ईषदाढ्य एव सन् किञ्चित् क्रियते तदा न भवति । करोतेरिहाभूतप्रादुर्भावार्थत्वात् । यथासङ्ख्यात्ईषदादयोऽनुभूयते इत्यत्र न स्यात् ।।१२७५।
[दु० टी० ]
कर्तृ० | यदेत्यादि । किञ्चिदित्यनेन बहिरङ्गता कथ्यते, अभूतप्रादुर्भावस्यान्तरङ्गतेति । अन्य आह अभूततद्भाव एवाभिधानाद् अभूततद्भावप्रादुर्भावयोश्च भेदः कथित
एव ।। १२७५ ।
[वि० प० ]
कर्तृ॰। इह चकारादीषदादयः कर्तृकर्मणी च युगपदेवोपपदम्, तत्र च