________________
कातन्त्रव्याकरणम्
सि। कुर्वन्त्यनेन। श्रवः। श्रु - घ • सि। शृण्वन्त्यनेन । नयः। नी - घ - सि नीयन्तेऽस्मिन्। विनयः। वि - नी + घ + सि। विनीयन्तेऽस्मिन् । लयः। ली - घ - सि। लीयन्तेऽस्मिन् । निलयः। नि - ली - घ - सि। निलीयन्तेऽस्मिन् । विषयः। वि + सि • घ - सि। विषिण्वन्त्यस्मिन् । 'छादि - कृ - श्रु' इत्यादि धातुओं से प्रकृत सूत्र द्वारा 'घ' प्रत्यय, ह्रस्व - गुण - अवादेश इत्यादि तथा विभक्तिकार्य।।१२६८। १२६९. गोचरसञ्चरवहव्रजव्यजक्रमापण
निगमाश्च [४।५।९७] [सूत्रार्थ]
'गोचर-सञ्चर - वह - व्रज - व्यज - क्रम -आपण - निगम' ये आठ शब्द घप्रत्ययान्त निपातन से सिद्ध होते हैं।। १२६९।
[दु० वृ०]
एते घप्रत्ययान्ता निपात्यन्ते। गावश्चरन्त्यस्मिन् गोचरः। प्रत्यासत्तिरुपलक्ष्यते । एवं सञ्चरः। वहन्त्यनेनेति वहो वृषभस्य। व्रजन्त्यस्मिन्निति व्रजः। विपूर्वोऽज् – व्यजन्त्यनेनेति व्यजः। क्रामन्त्यनेनेति क्रमः। आपणायन्तेऽस्मिन्निति आपणः। निगच्छन्त्यनेनेति निगमः। चकारात् - भजन्त्यस्मिन्निति भगः। निकषन्त्यस्मिन्निति निकषः।।१२६९।
[क० च०]
गोचर ०। ननु गोशब्देनात्र चक्षुरिन्द्रियमुच्यते, तेन चक्षुरत्र विषयं करोति तदेव गोचरशब्दवाच्यमुच्यते, या कालादीनां विषयस्तत्र कथं गोचरशब्दप्रयोग इत्याह - प्रत्यासत्तिरिति। एतेन लोचनगोचर इत्याद्यपि सिद्धम्, . अन्यथा लोचनशब्दप्रयोगो व्यर्थ: स्याद् गोचरशब्दस्य चक्षुर्विषयत्वात्। भग इति। ननु कथमयं पुंल्लिङ्गः। तथाहि'भगं श्रीकाममाहात्म्ये' इत्यमरेण नपुंसकत्वमस्य दर्शनात्? सत्यम्, पुंल्लिङ्गोऽपि दृश्यते। तथा च विष्णुपुराणे
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः। ज्ञानवैराग्ययोश्चैव षण्णां भग इति स्मृतः।।इति। भगं श्रीयोनिवीर्येच्छाज्ञानवैराग्यकीर्तिषु। माहात्म्यैश्वर्यमन्त्रेषु धमें मोक्षे च ना रवौ।।इति मेदिनी। गभस्तिहस्तोंऽशुधरः खरांशुभ रविर्भगः।।इति त्रिकाण्डशेषः।।१२६९। [समीक्षा]
'गोचर - व्रज' इत्यादि शब्दों की सिद्धि घप्रत्ययान्त निपातनप्रक्रिया द्वारा दोनों ही व्याकरणों में की गई है। पाणिनि का सूत्र है – “गोचरसंचरवहव्रजव्यजापणनिगमाश्च"