SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ कातन्त्रव्याकरणम् ननु भेद्यादित्यत्रापि "आशिषि च परस्मै'' (३।५।२२) इत्यगुणे प्राप्तेऽनेन निषेधाद् गुण एव भविष्यति । तथा वेत्तीत्यत्रापि 'लुग्लोपे न प्रत्ययकृतम्' इति सूत्रेण कृतस्य गुणनिषेधस्यानेन निषेधो गुणः सिद्ध एव कुतो दोषः ? सत्यम् । भेद्यादित्यत्र स्थानिवद्भावादिन: आशिषो व्यवहितत्वाद् गुणनिषेधस्याप्राप्तिः । वेत्तीत्यत्रापि लुग्लोपस्य न निषेधः, प्रत्ययाश्रितकार्यस्याभावात् । अत एव निमित्ताभावपरिभाषायास्तत्र निषेधात् कुत उभयत्र गुणनिषेधबाधा (प्राधान्यात्) इत्यपि ।। यद् वा विद्यमानतिप्रत्ययाश्रितगुणस्यैव प्राधान्यात् (यद् वा विद्यमानेति प्रत्ययाश्रितकार्यस्य निषेधः प्राधान्यात् ), न तु लुप्तानमवलम्ब्य प्राप्तस्य गुणस्य निषेधाद् गुणो गौणत्वात्। ननु वररुचिरत्र पञ्चम्यन्यपदार्थबहुव्रीहिमाश्रित्य 'प्रणत्य, संयत्य' इत्यादि व्यावर्तयति प्रत्ययलोपाभावात्। भवन्मते एकदेशस्य लोपात् कथं तकारागमः? सत्यम्। अनामिति वर्जनाद् आदेशस्य तु तत्साहचर्याद् आदेशे प्राप्त प्रतिषेधो नागम इत्यदोषः। सन्निपात इत्यादि। ननु अगुण: कथ सन्निपातलक्षण:, किन्तर्हि अनुषङ्गलोप एव। तथाहि यमगुणं दृष्ट्वा यस्य लोपस्य सम्भवः सोऽगुण: सन्निपातस्तेनागुणेन लक्ष्यते यो विधिलोपः सः सन्निपातलक्षण इति। अत्र कश्चिल्लक्षणशब्दः स्वरूपार्थः सन्निपातलक्षणः सन्निपातस्वरूप इत्यर्थः। नलोपस्य सन्निपातलक्षणत्वादगुणस्य न विघात इति साध्याहारान्वये साधुरित्यन्यः। अगुणाश्रितत्वाल्लोपोऽप्यगुण इति कश्चित्। सागरस्तु अगुणस्य य: सन्निपात: सन्निकर्षस्तल्लक्षणत्वात् तन्निमित्तत्वान्नलोपस्येति। यद् वा अगुणस्य सन्निकर्षाश्रितत्वादित्यर्थः । पञ्जिकाप्रतिषेधवशेनेति । अथ तर्हि 'नोऽत्र' इत्यादावपि अकारलोपनिषेधाद् "ओ अव्'' (१।२।१४) कथन स्यात् । अत्राप्यस्य लोपप्रतिषेधेनैव "ओ अव्' (१।२।१४) इत्यस्य प्राप्ति: ? सत्यम् । तत्र व्यक्तिपक्षाश्रयणाद् यावती विकृति: प्राप्नोति तावत्येव निषेधः । अत्र तु जातिपक्षाश्रयणमिति जाते: सकृल्लक्षणस्य चरितार्थत्वान्नो अवादेशस्य निषेधः । तथा व्यक्तीति समुदायापेक्षया तथाशब्दो नकारस्येति हेमकरः। नकारस्य लोपो येषाम् इत्युपचारार्थो दर्शित: । अस्य तु मते लुप्तनकारा धातवोऽप्युपचारात् तथोच्यन्ते, ततो न लुप्तनकारा अलुप्तनकारा इति स्थितम् ।।८५९। मि , दृशदकः, मरीमृजः' इत्यादि शब्दरूपों के सिद्ध्यर्थ गुण-वृद्धि के निषेध की ..नश्यकता होती है । इसकी व्यवस्था दोनों व्याकरणों में की गई है । पाणिनि का सूत्र है - "न धातुलोप आर्धधातुके' (अ०१।१।४)। यह ज्ञातव्य है कि कहीं कहीं पाणिनीय वृद्धि के लिए कातन्त्रकार ने दीर्घ आदेश किया है । सामान्यतया उभयत्र साम्य ही है। [विशेष वचन] १. कथं कुन्चेनिकुचितमिति? सन्निपातलक्षणत्वादगुणस्य (दु० वृ०) । २. भिन्नाधिकरणो बहुव्रीहिरभिधानात् (दु० टी०) ।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy