________________
१५
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः आहान्तधातुप्रस्तावाद् धातुरेवावसीयते। तर्हि पूर्वसूत्रात् सेडमन्तवमिकमिचमाम् इत्यादीनां कथमनुवृत्तिर्नास्ति, नैवम्। अमन्तानुवृत्तिर्नास्ति असम्भवात्। नहि अमन्तानामनामिति निषेध उपपद्यते तन्निवृत्त्या विशेषणस्यापि निवृत्तिरिति। तेन 'वंवमकः' इति सिद्धम्। अन्यथा वुणि परतश्चेक्रीयितलोपे अवमीत्यादिनिषेधाद् दीर्घः स्यात्। इदं न चारु, विशेष्यनिवृत्तौ विशेषणस्यानुवृत्तिर्बहुशो दृश्यते यतः।
यद् वा "न सेटोऽमन्तस्य" (४।१।३) इत्यत्र धातुरेव विशेष्य: सेडमन्तवमिकमिचमस्तु तस्यैव विशेषणानि, कुतो विशेष्यनिवृत्तौ विशेषणनिवृत्तिरिति सिद्धान्तः। तस्मादिष्टतोऽधिकाराणां प्रवृत्तिनिवृत्ती स्यातामित्येव युक्तम् , इचीत्यपि न वर्तते अनामिति प्रतिषेधात्। अथ यल्लकामिति क्रियताम्। एवं च सति समिधिता इत्यादय: सिद्धा:? विधरिवाचरतीत्यायिलोपे विधवतीत्यत्र गुणो न स्यात्। ‘पथीयति, मथीयति' इति क्विपि यलोपे पथ्यौ मथ्यावित्यत्र निवृत्तो दीर्घः। प्रत्ययलोपलक्षणन्यायेन पुनर्न स्यात्। स्थितौ तु श्रुतव्याख्यया न दोषः। किञ्च सस्वरोऽस्वरो वा इति निश्चयाभावे सस्वरपक्षे चेक्रीयितलोपनिषेध: स्यात् , अस्वरपक्षे तु यिनाय्योरिति। - ननु वररुचिरत्र अनामिति विहाय अनातामिति पठति, तेन ‘पापायक:' इत्यायि: स्यात्। भवन्मते का गतिरिति। एधः इत्यत्र त प्रत्ययस्य लग येभ्य इति समासादेव न निषेधः इति वदति? सत्यम् , अस्य च लोपे इत्यत्र विषयसप्तमी। कटचिकीरित्यादिप्रयोगसिद्ध्यर्थमुक्तं तस्य प्रयोगदृष्टाश्रयणात्। अत्र प्रागेव निरपेक्षत्वाद् यलोप इति न प्रत्ययकृतो लुगत्र इत्यदोषः, तर्हि 'द्रष्टा, भक्ता' इत्यादौ अन्तलोपे कार्यान्तरनिषेध: कथन्न स्यात्? नैवम् , प्रत्ययनिमित्तको यत्र लोपस्तत्रैवास्य विषय इति। अयं धुनिमित्तको लोपः, तत्र धुडादौ प्रत्यय इति सम्बन्धाभावात्। अत एव 'मूर्तः' इत्यत्र "नामिनो वोः" (३।८।१४) इत्यादिना क्ते दीर्घः सिद्धः। सादृश्यात् प्रत्ययाश्रितस्यैव कार्यस्य निषेधाद् इदं तु व्यञ्जनाश्रितमिति।
एतेनायमर्थः- प्रत्ययाश्रिते एकदेशलोपे सति प्रत्ययाश्रितस्यैव प्राप्तस्य कार्यस्य निषेध इति। एतेन 'कुतः, क्रुतिः' इत्यत्र धातोर्यलोपे प्राप्तस्यागुणस्य निषेधे गुणो न भवति, यलोपस्य व्यञ्जनमात्रनिमित्तत्वात्। तर्हि अनयैव युक्त्या 'नोनुवः' इत्यत्र उवादेशं प्रति पूर्वपक्ष एव नास्ति, तत् कथं टीकापञ्जिकयोः पूर्वपक्षसिद्धान्तौ कृतौ? सत्यम् , नहि उपायस्योपायान्तरं बाधितमिति । ननु जक्षतुरित्यादौ उपधालोपे कृते "अघोषेष्वशिटां प्रथमः'' (३।८।९) इति प्रथमे कर्तव्येऽनेन निषेध: कथन्न स्यादित्याह-अर्थादित्यादि। श्रुतत्वादित्यर्थः। 'नोनुवः' इति 'नु स्तुतौ' (२७) इत्यस्य रूपं स्यात् तात्पर्यकं न विद्यते नकारो येषामित्यस्य व्यावर्तनार्थत्वादित्युक्तमेव। वररुचिमतमाशङ्कयाह-प्रत्ययस्येति। तथा 'दृशदकः' इत्यत्र धातुभ्यः प्रत्ययस्य लुकोऽसम्भवाद् दीर्घः स्यादित्यपि दूषणान्तरम्।