________________
१४
कातन्त्रव्याकरणम् "घजीन्थेः" (४।१।६४) इत्यादिना नकारस्य लोप एवेति। अस्याविषयत्वादनर्थक: प्रतिषेधः स्यादिति। येषामिति अवयवावयविसम्बन्धे षष्ठीयं प्रतिषेधसामर्थ्यात्। अन्यथा समुदायस्य लोपे कस्य किं प्राप्नोति येनार्थवानयं प्रतिषेधः स्यात्। न च समुदायलोपार्थ सूत्रमस्तीत्याह–अर्थादिति। अवयवार्थं विभज्य समुदायार्थमाह-प्रत्यय इत्यादि। धातवः पुनरिह प्रकरणादवगन्तव्याः। अर्थात् तस्मिन्नेवेति। यस्मिन् प्रत्यये धात्वेकदेशो लुप्तस्तस्मिन्नित्यर्थः। यिन्निति समिधमिच्छति, दृशदमिच्छतीति। "नाम्न आत्मेच्छायां यिन्, यस्याननि" (३।२।५; ६।४८) इति यलोपः। 'नोनवः' इति। अत्र यथा अचप्रत्यये लुप्तचेक्रीयिते गुणः प्राप्तो न भवति, तथा "स्वरादाविवर्णोवर्णान्तस्य" (३।४।५५) इत्यादिना उवादेशोऽपि मा भूदिति न देश्यम्। प्रतिषेधवशेन तस्य प्राप्तिरिति।
प्रत्ययस्येति । भिदेहेंताविन् । नाम्युपधलक्षणो गुणः, आशिषि कारितलोपः। इह 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (का० परि० २७) इति निवृत्तो गुण: पुनर्न स्याद् इन: स्थानिवद्भावेऽपि पञ्चम्यन्तान्यपदार्थेऽस्य प्रतिषेधस्य विषयत्वात्। सिद्धान्ते तु इनो धात्वेकदेशस्य लुप्तत्वात् कथमिह गुण इति चेत् , नैवम्। नहि यस्मिन् धात्वेकदेशो लुप्तस्तस्मित्राशिषि प्रत्यये गुणश्चिकीर्घ्यते। किन्तर्हि लुप्तस्येन: स्थानिवद्भावादिति न दोषः । तथा 'वेत्ति' इत्यत्रापि तिप्रत्यये गुणो न स्यात्। अत एकदेशस्येत्यपेक्षायामपि भिन्नाधिकरणो बहुव्रीहिः षष्ठ्यन्तान्यपदार्थ एव दर्शितः। रागः इति। रन्जे: "भावकरणयोः" (४।३।४३) इति घञि नलोपः। कथमित्यादि। इह "भावादिकर्मणोज्दुपधात्' (४।१।१७) इति पक्षे गुण: प्राप्तः कथं भवतीति पूर्वपक्षार्थः। सन्निपातेत्यादि। परिहारस्यायमर्थः। नकारलोपो हि "अनिदनुबन्धानाम् " (३।६।१) इत्यादिना प्रत्ययस्यागुणत्वमाश्रित्य सञ्जातः। स कथं तद् विहन्तुमुत्सहते इति ।।८५९।।
[क० च०]
प्रत्ययः। प्रत्ययलुकामिति बहुव्रीहिरेव न तत्पुरुषः, बहुवचनादथासम्भवाच्च। लुप्तो नकारोऽन इत्युच्यते उपचाराद् एकदेशस्याश्रुतस्य ग्रहणाभावात् । तेनायमर्थः-न विद्यते - - वस्तो येषां तेऽनो धातवो नलोपवर्जिता इत्यर्थः। अथ मुख्यार्थबाधेन हि लक्ष । लि ते । न विद्यते नकारो येषां ते नकाररहिता इत्यर्थश्चेत् , 'नु स्तुतौ' (२।७) इत्यादानां नकारयुक्तानां वर्जनं स्यात्। 'नोनुवः' इत्यत्र गुण: प्रसज्येत ? सत्यम् , प्रत्ययलुगनामिति सिद्धे पदभेदो विशेषलाभाय, तेन प्रध्वस्तनकाराणां ग्रहणम्, उपचारात्। अथ मुख्यार्थसम्भवेऽपि यद्यप्युपचारस्तदा ईदृगुपचारः कथं न स्यात् , अकारानकारो यत्र त एवानकारास्ततश्चाकारनकारवतां धातूनां प्राप्तं कार्यं न भवति इत्यर्थः कथन्न स्यात्? सत्यम्। इष्टत्वान्ननिश्चय एव ।
अथात्र धातुग्रहणाभावात् सामान्यं कथं नावगम्यते। ततश्च 'साधुमग्भ्याम्' इत्यत्र संयोगादेधुंटो लोपे सति गत्वे कर्तव्येऽनेन प्रतिषेधः स्यात्? सत्यम्।