________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः दु० वृ०]
प्र. यये लुग् येषां धातूनामेकदेशस्य ते प्रत्ययलुकः, अर्थाद् अनाम् इत्यनकारकाणां त्यापलुकां धातूनां नलोपवर्जितानां यत् प्राप्तं तन्न भवति, अर्थात् तस्मिन्नेव प्रत्यये परे।
धिता, समिधकः। अदृशदि, दृशदक: (यिन्)। नोनुवः, मरीमृजः। तस्य लुगचि, तस्योपधाया दीर्घो गुणश्च न स्यात्। प्रत्ययस्य लुग् येभ्य इत्युक्ते-भेद्यात्। वेत्तीति इन्ननोलुंकि प्रतिषेधः स्यात्। अनामिति किम्? घजीन्धे:-एधः। उन्देर्मनि-ओद्म। रञ्जे:रागः। कथं कुञ्चेर्निचितम् इति? सन्निपातलक्षणत्वादगुणस्य ||८५९।
[दु० टी०]
प्रत्यय०। प्रत्यय इत्यादि। परसप्तमीयम् , लुगित्यदर्शनमिहोच्यते, न तु तस्य लुगचीत्यस्य लुक्शब्दचोदितस्य ग्रहणम्। अनाम् इति प्रतिषेधसामर्थ्याद् बहुवचनाच्चेति। येषामित्यवयवावयविसम्बन्धे षष्ठी, प्रतिषेधसामर्थ्यादसम्भवाच्च। धातूनामिति प्रकरणादधिकाराश्रयणाच्च। एकदेशस्येत्यपेक्षायामपि भिन्नाधिकरणो बहुव्रीहिरभिधानात्। अनामिति व्यक्तिभेदे बहुवचनम्। येषां धातूनामेकदेशा नकारभिन्ना: लुप्यन्ते तेषां यत् प्राप्तं तन्न भवतीत्यर्थः। नोनुवः इति। तमेवाच्प्रत्ययमाश्रित्य यथा गुणो न भवति तथोवादेशोऽपि न भवति। तथा चिनोतेश्चक्रीयितलुगन्तादचि 'चेच्यः' इति यत्वं न भवतीति न चोद्यम्। प्रतिषेधवशेन हि तयोः प्राप्तिरिति।
पञ्चम्यन्यपदार्थे दूषणमाह - भेद्यादित्यादि । इनो लोपे 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (का० परि० २७) इति निवृत्तो गुणः पुनर्न स्यात् । स्वरादेश: परनिमित्तकः पूर्वविधिं प्रति स्थानिवद्भावेऽपीन इति । नित्यत्वाभ्युपगमे तु भेद्यादिति पदं नित्यं स्थितम् , तत्र कारितलोपो भाव्यते । ततो गुण इति कुत: इयं चिन्ता कारितोत्पत्तावेव इति । एवमनो लुक्यपि वेत्तीति । कथमित्यादि । सन्निपातलक्षणो नलोपविधिरनिमित्तं तद्विघातस्येत्यर्थः। ननु नोनुवादयः किमित्युदाह्रियन्ते ? अस्य च लोपे कृते सति स्वरादेशस्य स्थानिवद्भावाद् गुणावयवोऽप्यगुण इति सिध्यतीष्टम् । तदसत् , परत्वात् तस्य लुगचीति समस्तस्य चेक्रीयितस्य लुका भाव्यम् । कथं देद्य इति दीडो यत्वापवादो दीङोऽन्तो यकार: स्वरादावगुण इति न भवति ? सत्यम् । तत्र हि ङानुबन्धः स्वरूपग्राहको भविष्यति चेक्रीयितार्थसंवलितत्वादर्थान्तरं वा । न विद्यते गुणो यस्मिन्नसावगुणः इति व्युत्पत्तिमाश्रित्य 'यायाः' इत्यत्र 'जङ्गमः' इत्यत्र च तस्य लुगचीति कृते "आलोपोऽसार्वधातुके" (३।४।२७) इति आलोपो “गमहन०" (३।६।४३) इत्यादिनोपधालोपश्च न भवत्यस्य प्रतिषेधस्य विषयत्वात् ।।८५९।
[वि० प०]
प्रत्यय० । प्रत्यय इति निमित्तसप्तमीयम् । लुगित्यदर्शनमात्रमुच्यते, न पुनर्लुक्शब्दोच्चारितस्य "तस्य लुगचि" इत्यस्यैव ग्रहणम् , अनामिति प्रतिषेधात्। अन्यथा