________________
[रूपसिद्धि]
१- ६. स्नानीयं चूर्णम् । स्ना +
अनीय + सि। स्नात्यनेन । दानीयो ब्राह्मणः । दा
अनीय + सि। दीयतेऽस्मै । समावर्तनीयो गुरुः । सम् + आ + वृत् + अनीय + सि
+
वच् + अनीय + सि। प्रवक्त्यस्मिन् ।
समावर्ततेऽस्मात् । प्रवचनीयः उपाध्यायः । प्र राजभोजनाः शालयः । राजन् + भुज् युट् अन + जस् । राजभिर्भुज्यन्ते । राजाच्छादनानि वासांसि । राजन् + आ + छद् + युट् - अन +
+
जस् । राजभिराच्छाद्यन्ते ।
'स्ना
दा-वृत् - वच् ' धातुओं से 'अनीय' प्रत्यय, 'छद् - भुज्' धातुओं से 'युट्' प्रत्यय तथा विभक्तिकार्य ।। १२६४ ।
१२६५. नपुंसके भावे क्तः [४।५।९३]
+
चतुर्थे कृदध्याये पञ्चमो घञादिपादः
-
-
[ सूत्रार्थ]
नपुंसकलिङ्ग में भाव अर्थ के विवक्षित होने पर धातु से 'क्त' प्रत्यय होता है ।। १२६५॥
[दु० वृ० ]
"
,
भावेऽर्थे नपुंसके क्तो भवति । शयितम् स्थितम् भवता कृतम् प्राप्तमनेनेत्यविवक्षितकर्मत्वात् । युटा बाधितो नपुंसके तो यथा स्यादिति वचनम् । वासरूपत्वाच्चेत् तर्हि घञादयोऽपि स्युरिति । । १२६५।
,
[वि० प० ]
नपुंसके०। “भावकर्मणोः कृत्यक्तखलर्था: " (४।६।४७) इति सामान्येन नपुंसकेऽपि सिद्धमित्याह – युटेत्यादि । । १२६५ ।
[क० च०]
नपुंसके०। वासरूपत्वादिति । अथ कथमिदमुक्तम् क्तयुट्तुम्खलर्थेषु वासरूपविधिर्नास्तीति निश्चयात् कथं घञादीनां प्रसङ्गः ? सत्यम्, सूत्रस्थितौ क्तयुट्तुमित्यादीति निश्चयः कृतः । इदानीं तस्यानादरेण यदि सूत्रमनादरणीयं स्यादित्युच्यते तदा युड्विषये क्तः स्याद् वासरूपत्वात्, तथा घञादयोऽपीति । किञ्च सामान्यत्वात् स्त्रीपुंसयोरपि भावें क्तः स्यादिति सूत्रमवश्यं विधातव्यमिति । अथ हेमकरेण कथमुक्तं घञादीनामित्यादिसूत्राभावे क्तयुट्तुम्खलर्थेष्वित्युक्ते युटो विषयेऽपि क्तो नास्ति, अत उदाहरणसिद्धिरेव न स्यात् तत् कथं सूत्रमविषयम् ? सत्यम् क्तयुटोरन्योऽन्यं वासरूपविधिरस्ति, किन्त्वस्य विषये नास्ति क्तयुडित्यत्र तस्योपादानात्, अन्यथा तत्र पाठो व्यर्थः स्यात् क्तस्योत्सर्गत्वात् ॥१२६५।
,
,
[समीक्षा]
'हसितम्, शयितम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही शाब्दिक आचार्यों ने 'क्त' प्रत्यय का विधान किया है। पाणिनि का सूत्र है
“नपुंसके भावे क्तः”
(अ०३ | ३ | ११४)। अतः उभयत्र पूर्ण समानता ही है।