________________
चतुर्थे कृदध्याये पञ्चमो घञादिपादः
४१७ कारके च। अन्यत्रापीति। बहुलत्वात् स एव - सम्पत् , विपत् , प्रतिपत् , आपत् । सम्पत्तिरित्यपि स्यात् । सम्पदादिराकृतिगणोऽयम् । इकिश्तिपो धातुस्वरूपेऽर्थे ज्ञापकादेव सिद्धाः। अकार:, ककारः इत्यौणादिकः, कारशब्देन वा समासः। यथा - एवंकारः, ॐकारः, स्फीत्कारः, स्फुत्कारः, शीत्कारः, चीत्कारः, वषट्कारः, स्वाहाकारः। रेफ इति, औणादिको रादिफः।।१२६३।
[वि० प०]
नव्यन्याः। स एवेति। "क्विप् च'' (४।३।६८) इत्यनेन यो विहित इत्यर्थः। इकितिपो धातुस्वरूपेऽर्थे ज्ञापकादेव सिद्धा इति। तत्र "परोक्षायामिन्धिश्रन्थिग्रन्थि." (३।६।३) इत्यादिनिर्देशाद् इप्रत्ययः, “राधिरुधिक्रुधि०'' (३।७।२२) इत्यादिनिर्देशात् किप्रत्यय: कानुबन्धबलादगुणत्वम् , "करोतेः, हनिमन्यते त् '' (३।५।४०,३।२३) इत्यादिनिर्देशात् श्तिप्प्रत्ययः। शानुबन्धबलादस्य सार्वधातुके विकरणः, पानुबन्धोऽपीह सुखार्थः। परप्रसिद्ध्यर्थमुपादीयते, परो हि किल सार्वधातुकवदिति प्रयोजनमाह। अन्ये तु "इश्तिपौ" इति मन्यमानाः द्वौ प्रत्ययावित्याहुः। तदसत् , “इन्धिश्रन्थिग्रन्थि ०" इत्यादिनिर्देशानुपपत्तिप्रसङ्गात् । इह हीप्रत्ययेऽनुषङ्गलोप: स्यादिति तस्माद् इप्रत्ययोऽपि विधेयः। तथा च चान्द्रसूत्रम् - "इकिश्तिपः स्वरूपे" इति। अकार इत्यादि। एतेन "वर्णात् स्वरूपे कारतौ” इत्यूणादिष्वपि निष्फलमिति दर्शितम् । तदेवान्यथाकारं दर्शयन्नाह – यथेति। अन्यथा वर्णादित्युक्ते कथं शब्दात् कारः स्यादिति भावः।।१२६३।
[क० च०]
नयन्या०। भावे कारके चेति। सम्पदिति भावे, प्रतिपदिति कर्मणि कारके। तथा क्रियते इति कृत्। न च सम्पदादित्वात् कारकेऽपि क्विपि स्त्रियामित्यधिकारात् स्त्रीलिङ्गे सति कृदिति स्त्रीलिङ्गतया दूषणमिति कर्तर्येव क्विबिति वाच्यम् । अत्र तुं वक्तव्ये स्त्र्यधिकारस्यानादराद् अत एव सम्पत्तिरिति वासरूपविधिनेति हेमोक्तं सङ्गच्छते। यच्च सम्पदादेः स्त्रीलिङ्गता तच्च भावे क्विपि स्वभावादेव, कारके तु वाच्यलिङ्गता। सार्वधातुकमपिदित्यादि अगुणविधायकं सूत्रम् । अस्यार्थः - अपिद् अपानुबन्धं सार्वधातुकमगुणं भवति। यथा तुदति। अत्र परेण मध्ये श: क्रियते। अपिदिति किं भवति। अत्र मध्ये शप् क्रियते "कर्तरि शप" ((अ०३।१।६८) इति परसूत्रम्। इदनुबन्धः। पकारोऽनुबन्धो यस्य तत् पित् , न पित् अपित् । यद् वा न विद्यते पकारोऽनुबन्धो यस्यापित् "वर्णात् स्वरूपे कारतौ" इति परसूत्रम् । तत्र कारप्रत्ययो दूषितः, तकारस्तूणादौ स्वीकर्तव्यः।।१२६३।
[समीक्षा]
‘अकरणिः, अजीवनिः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'अनि' प्रत्यय किया गया है। पाणिनि का सूत्र है – “आक्रोशे नव्यनि:' (अ०३।३।११२)। इस प्रकार उभयत्र समानता ही है।