________________
चतुर्थे कृदध्याये पञ्चमो घञादिपादः
४८९
इति। एतद् लाघवार्थं धातुगणे परिभाषितमर्वाचीनैः । प्राचीनैस्तु षानुबन्धाः प्रत्येकं मानुबन्धा इव कृता इति । ज्ञापकादिति । पूर्वपरयोरर्थोपलब्धाविति ज्ञापकादित्यर्थः। क्षान्तिरिति । एतदपि "गमिन् क्षान्तौ " ( ३।२।४२-५) इति रुचादिगणवचनादिति कश्चित् । तदयुक्तम्, इह दैवादिकस्य क्षमेरषानुबन्धत्वादिदमपि स्यादित्यपेरर्थः । 'ड्डु लभष् प्राप्तौ' (१।४७२), 'क्षमूष् सहने' (१।४०४) । अङि तु 'उपलभा, क्षमा' इति स्यादेव। इह भिदादिः 'भिदिर् विदारणे' (६।२) इत्यादिस्तु धातुगणो न गृह्यते । अन्यतोऽप्यङो दर्शनाद् अपि तु 'भिदा, छिदा, गुहा' इत्यादिर्नामगण एव । न च नाम्नः प्रत्ययः, धात्वधिकारात् । अतस्तत्रापोद्धारणद्वारेण ये धातवो दृश्यन्ते - 'भिदिर् विदारणे, छिदिर् द्विधाकरणे, गुहू संवरणे' (६।२, ३,१।५९५ ) इत्यादयः, तेभ्यः प्रत्यय इत्याह-भिदादिभ्य इत्यादि । आरेति । "रम् ऋवर्णः " (१।२।१०) इति रेफः । अर्त्तिरिति। ‘ऋवर्णे अर्" (१।२।४) इत्याङोऽर् परलोपश्च । ऊनेत्यादि । चत्वारोऽध्यमी चुरादौ पठ्यन्ते । यौ प्राप्त इति " ईषिश्रन्यासि ०" (४।५।८५) इत्यादिनेत्यर्थः । मृगयेति। ‘मृग अन्वेषणे' (३।२४) अदन्तगणनिपातनात् कारितलोपं बाधित्वा गुण एव भवति ।। १२५४
[क० च०]
षानु०। आरा शस्त्री, अर्त्तिरन्येति । आङ्पूर्वादर्तेः क्तिरिति कथमुक्तम्, "ऋति धातोरुपसर्गस्य" (कात० परि० सं०५) इति दीर्घे आर्तिरेव स्यात् । अत एव श्रीपतिः - आङ्पूर्वादत्र्त्तेरार्तिरित्येव, अर्त्तिरिति गुरोरप्यर्दे: क्तौ रूपं ततो विश्वार्तिः, सार्त्तिः ' इति भवति, अन्यथा आङादेशाद् आड्यादिष्ट इति पूर्वलोपे विश्वर्तिरव स्यादित्याचष्टे। तथा च प्रयोग : - 'देवि ! प्रपन्नार्तिहरे ! प्रसीद' (दु० स० ) इति । अत्र सम्प्रदायविदः - क्वचिदधिकारस्य बहुलत्वाद् "ऋति धातोरुपसर्गस्य" (कात० परि० सं०५) इति दीर्घो न भवति अर्तेरप्यर्तिरिति स्वीकर्तव्यम् । तथा च " रोगाख्यां वुञ् " (४/५/८७) इति वक्ष्यति। अप्यधिकाराच्छिरसोऽर्दनं शिरोऽर्त्तिरिति । सागरस्तु आङ्पूर्वादर्त्तेरित्यत्राडुपसर्ग इति नियमो नास्ति। यदाडुपसर्गेण धातुयोगस्तदा दीर्घत्वं दुर्गस्यापि सम्मतम् यदा तु क्त्यन्तस्यापि विशेषणमा शब्दस्तदा नोपसर्ग इति दीर्घत्वाभावादर्त्तिरिति भवत्येव । इदं तु पाणिनेरपि सम्मतम् । अत एव 'विश्वार्त्तिः, सार्त्तिः' इत्याड्यादिष्ट इति पूर्वलोपे एकतकारपाठश्च युक्तिसिद्धत्वाद् दुर्निवार इति । नन्वेवमर्देरर्त्तिपदसाधनं व्यर्थम् एवं च तकारत्रयश्रुतेः प्रयोजनत्वात् । एवं च सति आरेति रेफ इति "रम् ऋवर्णः " ( १ |२| १० ) इति कथं त्रिलोचनेनोक्तम् । अन्तरङ्गत्वादरादेशे सति धातोरुपसर्गस्येति दीर्घत्वमेव युज्यते इति देश्यमपास्तम् आङ्पूर्वत्वाभावात् कुतोऽन्तरङ्गविचारः । तथा च यथाश्रुतकाशिकादर्शनात् श्रीपतिनोक्तम्, तदुन्मत्तप्रलपितम् । यच्च साम्प्रदायिकैरुक्तं क्वचिदधिकारान्न दीर्घस्तदपि हास्यास्पदमिति । वयं तु आरेति "रमृवर्णः " (१।२।१०)
)
,