________________
४८३
चतुर्थे कृदध्याये पञ्चमो घञादिपादः [दु० टी०]
सम०। अटेरित्यादि। सूत्रकारमतं तु केवलाद् भवितव्यम् , तदेव प्रमाणम् । 'वृथाट्या खलु सा तस्याः' इति प्रयोगश्च दृश्यते। केवलादपि चरेरभिधीयते-चर्यया प्रसरति। परमतं तु वृत्तौ दर्शितम् ।।१२४८।
[वि० प०]
समजा०। शय्येति “अमीर्ये' (३।६।१९) इत्ययादेशः। अटेरित्यादि। ऋप्रभृतिभ्यश्चेति वचनाद् अटेर्यशब्दः, द्विर्वचनादिकम् , पूर्ववद् अस्य च लोपे कृते "यस्याननि'' (३।६।४८) इति चेक्रीयितलोपः। एतत्तु वृत्तौ मतान्तरमुक्तम् । सूत्रकारस्य त् मतं वर्णयन्ति केवलादप्यट: क्यप् प्रमाणमिति। तथा च भट्टिकाव्ये 'वृथाट्या खलु सा तस्याः' इति प्रयोगो दृश्यते। परिपूर्वादेवेति। एतदपि मतान्तरेण। केवलादपि दृश्यते - योगी चर्यया भ्रमतीति। मन्येति। "यपि च" (४।१।६०) इति पञ्चमलोपो नास्ति क्यपो व्यनुबन्धकत्वात् । भृत्येत्यादि। ह्रस्वात् तोऽन्तः। भाव इत्यादि। "ऋवर्णव्यञ्जनान्ताद् ध्यण' (४।२।३५), "भावे पचिगापास्थाभ्यः" (४।५।७४) इत्यतो भावाधिकारो वर्तते, यच्चाधिकरणेऽपीत्युक्तम् , तदभिधानमाश्रित्य वेदितव्यम् । अन्ये तु भावाधिकार नाद्रियन्ते, पूर्वोक्त एवाधिकार एवाहः, तन्मते कथमुक्तम् – 'स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिध्यति' इति? सत्यम् , भावाधिकारो भावव्यापारः, वाच्यत्वेन भृञः क्यपो विवक्षितः, न तु शास्त्रीयाधिकार इति न दोषः।।१२४८।
[क० च०]
समजा०। स्त्रियां भावाधिकारोऽस्तीति "भृञोऽसंज्ञायाम्" (४।२।२५) इत्यत्रोक्तम् ।।१२४८।
[समीक्षा]
'समज्या, विद्या, शय्या' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'क्यप्' प्रत्यय किया गया है। पाणिनि का सूत्र है- “संज्ञायां समजनिषदनिपतमनविषुञ्शीभृत्रिण:" (अ० ३।३।९९)। पाणिनि की अपेक्षा 'आस्या, अटाट्या, परिचर्या' ये तीन शब्द कातन्त्रकार ने अधिक सिद्ध किए हैं। पाणिनीय व्याकरण में ‘परिचर्या-अटाट्या' शब्द वार्त्तिकसूत्र “परिचर्यापरिसर्यामृगयाटाट्यानामुपसंख्यानम्" (अ०३।३।१०१-वा०) द्वारा यक् प्रत्यय से सिद्ध किए जाते हैं। इस प्रकार कातन्त्रीय उत्कर्ष कहा जा सकता है।
[विशेष वचन] १. सूत्रकारमतं तु केवलाद् भवितव्यम् (दु० टी०)। २. परमतं तु वृत्तौ दर्शितम् (दु० टी०)। ३. सूत्रकारस्य तु मतं वर्णयन्ति (वि० प०)। ४. अन्ये तु भावाधिकारं नाद्रियन्ते (वि० प०)।