________________
४८४
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१-१२. समज्या। सम् - अज् + ल्यप् - आ + सि। समजन्त्यस्याम् । आस्या। आस् + क्यप् + आ + सि। असतेऽस्याम् । निषद्या। नि + सद् - क्यप् - आ - सि। निषीदन्त्यस्याम् । निपत्या। नि + पत् + क्यप् + आ + सि। निपतन्न्यस्याम् । शय्या। शीङ् + क्यप् + आ - सि। शरतेऽस्याम् । सुत्या। षुञ् + क्यप् + आ - सि। सवनम्। विद्या। विद् - क्यप् + आ + सि। विदन्त्यनया। अटाट्या। अटाट्य + क्यप - आ + सि। अटाट्यतेऽनया। परिचर्या। परि + चर् + क्यप् + आ + सि। परिचरन्त्यनया। मन्या। मन् + क्यप् + आ + सि। मन्यतेऽनया। भृत्या। भृञ् + क्यप् + आ - सि। बिभ्रत्यनया। इत्या। इण् - क्यप् + आ - सि। यन्त्यनया। 'समज - आस् - निषद् - निपत् - शीङ् - षुञ् - विद् - अटाट्य - परिचर् - मन् - भृञ् -इण्' धातुओं से क्यप् प्रत्यय, शीधातुघटित ईकार को अय्. 'भृ - इ' धातुओं के अन्त में तकारागम तथा विभक्तिकार्य।।१२४८।
१२४९. कृञः श च [४।५।७७] [सूत्रार्थ]
'डु कृञ् करणे (७७) धातु से ‘श-क्ति' तथा 'क्यप्' प्रत्यय होता है ।।१२४९।
[दु० वृ०]
कृत्र: शो भवति नि: क्यप् च । क्रियते इति क्रिया। भावे च – कृति:, कृत्या।।१२४९।
दुि० टी०]
कृतः। सूत्रे शप्रत्ययश्चकारस्य सम्बन्धाद् व्यवहितोऽपि क्तिप्रत्ययो भवति। अन्यथा चकारेणानुकर्ट शक्यत एव क्यबिति मनसि कृत्वाह - क्तिः क्यप् चेति।।१२४९।
[वि० प०]
कृञः। चकारेण सूत्रे शप्रत्ययस्यैव सम्बन्धो न क्यपः। तेन व्यवहितोऽपि तिर्वर्तत इत्याह – क्ति: क्यप् चेति। यदि पुनरनन्तर: क्यबेव वर्तते, तदा तेनैव चकारस्य सम्बन्धः कृतः स्यादिति भावः। यस्तु क्यप् चेति चकार: सोऽर्थवशाद् भेदनिबन्धनो वृत्तिकृता प्रयुज्यते, न त्वसौ सौत्र इति। अन्ये तु योगविभागात् क्तिप्रत्ययमिन्छन्ति। 'कृञः' इत्येकयोगोऽन्तरेण क्यपा सम्बध्यते। अत: ‘श च' इति चकाराद् यथाप्राप्तं च, क्तिरपि भवति। भावे चेति। न केवलम् "अकर्तरि च कारके संज्ञायाम्" इति। एतेन भावाधिकारो नान्तरो वर्तते, किन्तर्हि पूर्वोक्त एवाधिकार इति दर्शितम् ।।१२४९।
[क० च०] कृञः। तेनेति पञ्जी। अत्र किं कारणम् ईदृशे सम्बन्धेऽप्यनन्तरत्वात् क्यपोऽनुवृत्तिरेव