________________
४७७
चतुर्थे कृदध्याये पञ्चमो घादिपादः [वि. प०]
ड्वनु० । धातुना निर्वर्तनस्यासम्भवात् तच्छब्देन धात्वों निर्दिश्यते इत्याहतेनेत्यादि । निर्वृत्तमित्यादि। यदा कर्तरि तदा करणे हेतौ वा तृतीया । यदा कर्मणि तदा कर्तरि युज्यते तृतीयेति। अतस्तदुक्तं यथायोगमिति । न च वक्तव्यं वृतेरकर्मकत्वात् कथं कर्मणि क्त इति? अकर्मकोऽपि धातुः सोपसर्गः सकर्मको भवति। अन्तर्भूतकारितार्थत्वाद् वा सकर्मकः । यथा घटं निर्वर्तते । ननु च साध्यरूपो धात्वर्थः,स कथं करणं हेतुकर्ता वा भवितुमर्हतीति? सिद्धस्यैव प्रसिद्ध्यर्थं करणादिरूपेणोपादानात् ? सत्यम् । न केवलं धात्वर्थ: करणादिरूपेणाश्रीयते, किन्तर्हि तेनोपलक्षणेन भावप्रत्ययान्त: पाकादि: करणादिभावेन लक्ष्यते, स च सिद्ध एवेत्युक्तं पाकेन निवृत्तमिति ।। १२४०।
[क०च०] ड्वन० । स चेति कृद्विहितस्य सिद्धताख्यभावत्वादित्यर्थः ।।१२४०। [समीक्षा
'पवित्रमम् , कृत्रिमम् ' इत्यादि शब्दों के सिद्ध्यर्थ कातन्त्रकार 'त्रिमक ' प्रत्यय करते हैं ,जबकि पाणिनि 'वित्र 'प्रत्यय-“ड्वित: वित्रः' (अ० ३।३।८८) । अत: उन्हें "कर्मम् नित्यम् " (अ० ४।४।२०) से 'मप 'प्रत्यय भी करना पड़ता है,जिससे पाणिनीय गौरव ही सिद्ध होता है ।
[विशेष वचन १. अकर्मकोऽपि धातुः सोपसर्ग: सकर्मको भवति (दु०टी०; वि० प०) । [रूपसिद्धि]
१-२. पक्त्रिमम। पच +त्रिमक +सि । पाकेन निवृत्तम् । कृत्रिमम् । कृ+ त्रिमा + सि । करणेन निर्वृत्तम् । ‘पच् -कृ' धातुओं से प्रकृत सूत्र द्वारा 'त्रिमक' प्रत्यय, “चवर्गस्य किरसवणे" (३।६।५५) से चकार को ककार, लिङ्गसंज्ञा, सि-प्रत्यय, “आकारादसंबुद्धौ मुश्च' (२।२।७) से 'मु' आगम तथा सि-लोप ॥१२४०। १२४१. याचिविच्छिप्रच्छियजिस्वपिरक्षियतां
नङ् [४।५।६९] [सूत्रार्थ 'याच् ' इत्यादि ७ धातुओं से 'नङ् ' प्रत्यय होता है ।।१२४१। [दु० वृ०]
एभ्यो नङ् भवति । याच्या, विश्नः, प्रश्नः, यज्ञः, स्वप्नः, रक्ष्णः, यत्नः ।।१२४१।
[दु० टी०]
याचि०। ननु 'टु याच याच्यायाम्' (१५७४) इति निर्देशाद् याच्याशब्द: स्वभावात् स्त्रीलिङ्गो ज्ञायते। "प्रश्नाख्यानयोरिञ् च वा' (४।५।९०) इति प्रश्नशब्दोऽकृतसम्प्रसारण:। "यज्ञे समि स्तुवः' (४।५।१८) इति यज्ञशब्दः, 'शी