________________
४७६
कातन्त्रव्याकरणम्
[समीक्षा]
'वेपथुः, श्वयथुः' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'अथु' प्रत्यय तथा पाणिनि ने 'अच्' प्रत्यय किया है— “ट्वितोऽथुच्' (अ०३।३।८९)। पाणिनि का चकारानुबन्ध वैदिक शब्दों में चित्स्वरार्थ किया गया है। अत: लौकिक शब्दों के साधन की दृष्टि से उभयत्र समानता ही कही जा सकती है।
[विशेष वचन] १. वर्णादेव कारः क्रियते न त् शब्दात् (क० च०)। [रूपसिद्धि]
१-४. वेपथुः। वेपृ + अथु + सि। श्वयथुः। श्वि + अथु + सि। दवथुः। दु + अथु + सि। वमथुः। वम् + अथु + सि। 'वेप् -श्वि - दु -वम्' धातुओं से ‘अथु' प्रत्यय, 'श्वि-दु' धातुघटित इकार-उकार को गुणादेश एकार-ओकार, ‘अय् -अव्' आदेश तथा विभक्तिकार्य।।१२३९। १२४०. ड्वनुबन्धात् त्रिम तेन निवृत्ते [४।५।६८] [सूत्रार्थ)
निर्वृत्त (निष्पन्न) अर्थ में 'डु' अनुबन्धवाली धातुओं से 'त्रिमक्' प्रत्यय होता है।।१२४०।
[दु० वृ०]
ड्वनुबन्धाद् धातोस्त्रिमग् भवति तेन धात्वर्थेन निर्वृत्तेऽर्थे। 'डु पचष्' (१।६०३) -पाकेन निर्वृत्तं पवित्रमम्। 'डु कृञ् (७।७)-करणेन निर्वृत्तं कृत्रिमम् । निर्वृत्तमिति कर्तरि कर्मणि वा क्तः। तेनेति यथायोगं तृतीया।।१२४०।
[दु० टी०]
ड्वनु०। तेनेत्यादि । तच्छब्देन धातुः परामृश्यते, धातुना निर्वर्तनं युज्यते। अर्थाद् धात्वर्थो गृह्यते इत्याह-तेनेत्यादि। निर्वृत्तमित्यादि। वृतेरकर्मकत्वात् कर्तरि क्तस्तेनेति करणे हेतौ वा तृतीया। अथवा निवृत्तमिति कर्मणि क्तः, अकर्मकोऽपि सोपसर्गः सकर्मकोऽन्तर्भूतेनथों वा निवर्तितमिति तदा कर्तरि तृतीया। यथायोगमिति। सम्बन्धानतिक्रमेण विवक्षावशाद यदि "अकर्तरि च कारके संज्ञायाम् " (४।५।४) इति वर्तते तथापि निर्वृत्तग्रहणसामर्थ्यात् कर्तरि त्रिमप्रत्ययः कर्मण्येव वा विवक्षया धातुसज्ञा पुनर्गम्यत एव कथं धात्वर्थ: करणं हेतु: कर्ता वा भवति असिद्धरूपत्वात्? सत्यम् । केवलेन धात्वर्थेनोपलक्षणीभूतेन भावप्रत्ययान्तः करणादिर्लक्ष्यते इत्युक्तम् - पाकेन निर्वृत्तं पत्रिममिति । ननु ड्वनुबन्धात् तृग् इत्युच्यताम् , भावे तृग् भविष्यति भाववचनात् तेन निवृत्तमित्यर्थे इमस्तद्धितो रूढित्वाद् विद्यते। यथा पाकेन निर्वृत्तं पवित्रममिति? सत्यम् ।पक्रादेस्त्रन्तस्य प्रयोगनिवृत्त्यर्थं वचनं युक्तम् ।।१२४०।