________________
४५८
कातन्त्रव्याकरणम
[रूपसिद्धि]
१. सांकोटिनम् । सम् + कुट् + इनुण + अण् + सि। 'सम् ' उपसर्ग-पूर्वक 'कुट कौटिल्ये' (५।८३) धातु से प्रकृत सूत्र द्वारा 'इनुण्' प्रत्यय, इज्वद्भाव, उपधादीर्घ, धातुघटित उपधासंज्ञक उकार को गुण, स्वार्थ में अण् प्रत्यय तथा विभक्तिकार्य।
२. सांराविणम् । सम् + रु + इनुण + अण + सि। ‘सम्' उपसर्गपूर्वक ‘रु शब्द' (२।१०) धातु से 'इनुण्' प्रत्यय आदि कार्य पूर्ववत् ।।१२११॥
१२१२. कर्मव्यतीहारे णच स्त्रियाम् [४।५।४०] [सूत्रार्थ
क्रियाविनिमय अर्थ के गम्यमान होने पर भाववाच्य स्त्रीलिङ्ग में धातु से ‘णच्' प्रत्यय होता है।।१२१२।।
[दु० वृ०]
क्रियाविनिमये गम्यमाने धातोर्णच् भवति स्त्रियां भावे। व्यावक्रोशी, व्यावभाषी। णजन्तात् स्वार्थेऽण् । तत्र क्वचिदधिकारात् क्रियाव्यतीहारे न वृद्धिरागमः। कथं व्यतीहा, व्यतीक्षा, व्यवक्रुष्टिरिति? अत्यधिकारत्वाद् तासरूपता।।१२१२।
[दु० टी०]
कर्म०। व्यतीहारो विनिमयः, स च क्रियाया एव संभवति न द्रव्यस्य, तर्हि यत् कर्मग्रहणं तन्मन्दधियां सुखार्थम् । स्त्रियामित्युत्तरत्र न वर्तते, अन्यथा स्त्रीप्रकरण एव सर्वं कृतं स्यात् । पूर्वस्मिन्निति च भावग्रहणं मन्दधियामाविर्भावार्थम, न हि कारकसंज्ञायां दृश्यते। न च भाव एवेति फलं कर्मण्यधिकरणे चेत्यत एतयोर्योगयोः पठनं युक्तं यदकृतं तद् वैचित्र्यार्थमेव। स्त्रियामिति किमर्थम् - व्यतिपाकः। केचिदिदं सूत्रमिनुण: पूर्वं पठन्ति "अकर्तरि च कारके संज्ञायाम्" (४।५।४) प्रत्ययमिच्छन्ति, तदसद्भाव एवाभिधानाद् भावसम्बन्धोऽयं मन्दमतिसुखप्रतिपत्त्यर्थः।।१२१२।
[वि० प०]
कर्म०। अस्यधिकारत्वादिति। अत एव "स्त्रियां क्ति:' (४।५।७२) इत्यनन्तरं कर्मव्यतीहारे णजिति न कृतम्, त्यधिकारविहितत्वान्मा भूद् अस्त्रियामिति प्रतिषेधः।।१२१२।
[क० च०]
कर्म०। ननु व्यतीहारो विनिमयः परिवर्तश्च, स च द्रव्याणामेव. सम्भवति। यथा तिलान् गृहीत्वा माषान् ददाति, माषान् गृहीत्वा तिलान् ददातीति तत्कथममूर्तायाः क्रियायास्तस्याः सम्भव:? सत्यम् । द्रव्यविनिमयो यथा देवदत्तेन चिकीर्षितां क्रियां यज्ञदत्त: करोति तथा यज्ञदत्तेन चिकीर्षितां देवदत्त इति, तदा क्रियाव्यतीहार इति। ननु सत्यप्यस्त्यधिकारे कथं व्यतीक्षा, व्यतीहा इति सारूप्याद् वासरूपता? सत्यम् । यद्यपि णचश्चकारोऽनुबन्धत्वेऽपि प्रत्ययत्वेन सह वासरूपत्वात् तेन विवक्षेति वासरूपत्वात् सिद्धं व्यतीक्षेति।।१२१२।