________________
चतुर्थे कृदध्याये पञ्चमो घत्रादिपादः
४५३ तेन वृक्षाग्रे फलप्रचयं करोति। अप्यधिकारात् स्तेये न स्यात् - हस्तेन फलप्रचयं करोति चौरः। तुशब्दो वानिवृत्त्यर्थः।।१२०६।
[दु० टी०]
चेस्तु। हस्तेन आदानं हस्तादानम्, ग्राह्यस्य वस्तुन इति सम्बन्धः। चिनोत्यर्थस्य हस्तादानविषयत्वाच्चिनोतिस्तद्विषय उच्यते। प्रत्यासन्नोपलक्षणमिति। प्रत्यासन्नस्य वस्तुन उपलक्षणम्। प्रत्यासत्तिः सामीप्यम् । तेनेत्यादि। केचित् प्रचय इत्युदाहरन्ति, तै: प्रचयनमात्रमेव विवक्षितं न तु दूरासन्न इति। स्तेये न स्यादिति स्तेनस्य भाव: कर्म वा स्तेयशब्दवाच्यम् । स्तेय इत्यनेनापि चिनोत्यर्थ एवावशिष्यते, स्तेये न भवतीत्यर्थः। यदि वा फलप्रचयं स्तेये न करोति तदापि न स्यात् । ननु यदा भावस्तदा भाव एव विशेषणं प्रसज्यते, यदा कर्म तदा कथं तेनैव तत् क्रियते ? सत्यम् । अभेदोपचाराद् यदाभीक्ष्ण्येन पाकेन पचति मन्दया गत्या गच्छतीति।। १२०६।
[वि० प०]
चेस्तु। हस्तादानेत्यादि। हस्तेनोपायान्तरनिरपेक्षेणादानं ग्रहणं प्रत्यासन्नस्यैव वस्तुनो भवति, अतस्तस्यैव तदुपलक्षणं युज्यते। वृक्षाग्रे इत्यनेन ग्राह्यस्य प्रत्यासन्नतां सूचयति।।१२०६।
[समीक्षा]
‘प्रचायः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'घञ्' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है— “हस्तादाने चेरस्तेये' (अ०३।३।४०)। अत: उभयत्र समानता ही है।।
[रूपसिद्धि]
१. पुष्पप्रचायः। प्र +चिञ् + घञ् + सि। 'प्र' उपसर्ग के उपपद में रहने पर 'चिञ् चयने' (४५) धातु से 'घञ्' प्रत्यय, इज्वद्भाव, वृद्धि, आय् - आदेश तथा विभक्तिकार्य।।१२०६।
१२०७. शरीरनिवासयोः कश्चादेः [४।५।३५] [सूत्रार्थ
'शरीर' तथा 'निवास' अर्थ में 'चिञ् चयने' (४।५) धातु से 'घञ्' प्रत्यय तथा चकार को ककारादेश भी होता है।।१२०७।
[दु० वृ०]
चिनोते: शरीरे निवासे चार्थे घञ् भवति आदेश्च को भवति। चीयतेऽसौ कायः शरीरम् । निचीयतेऽस्मिन्निति निकायो निवासः। अप्यधिकारच्चितिराश्योरपि। आचीयतेऽसौ आकायश्चितिः, गोमयनिकाय:। कथं काष्ठनिचय:? बहुत्वमात्रविवक्षयेति।।१२०७।