________________
४५४
कातन्त्रव्याकरणम्
[दु० टी०]
शरीर०। चीयते सुखदुःखाभ्यामित्यर्थः। निचीयतेऽस्मिन्निति प्राणिभिरित्यर्थः। अप्यधिकारादित्यादि। अप्यधिकारादित्यादि। चीयतेऽसाविति चितिः, राशिः समूहः, निचीयतेऽस्मिन्निति। गोमयानां निकाय इति षष्ठीसमासः। कथमित्यादि। उपर्यपरि संनिविष्टानां राशिरिति भावः। पदान्तरेण तु विशिष्यमाणे बहुत्वे राश्यर्थो गम्यते न वाक्यार्थः। पदसंस्कारेऽधिक्रियते इति सूत्रकारस्य सम्मतम् । भाषायां चितिराश्योरर्थयोर्न प्रयोगः। कश्चेति सिद्धे आदिग्रहणं वैचित्र्यार्थम् । अथ चेच्यम् इत्यस्य चेक्रीयितलुगन्तस्यादेर्यथा स्यात् परस्य मा भूदिति। तन्न, छन्दसि प्रयोगात् । अथ 'कि कित ज्ञाने' (२।७६) इत्यस्माद् घञ् विधीयताम् , कश्चादेरित्यनभिधेयं स्यात् , न ज्ञानार्थस्य शरीरादौ वृत्तिरदृष्टकल्पनीया स्यात् ।।१२०७।
[क० च०] शरीर०। चितिरिति चिता यस्य ख्यातिरिति।।१२०७। [समीक्षा
'कायः, निकाय:' आदि शब्दरूपों की सिद्धि दोनों ही व्याकरणों में 'घत्र' प्रत्यय द्वारा की गई है। पाणिनि का सूत्र है-“निवासचितिशरीरोपसमाधानेष्वादेश्च कः' (अ०३।३।४१)। अत: प्राय: उभयत्र समानता ही है।
[विशेष वचन] १. पदसंस्कारेऽधिक्रियते इति सूत्रकारस्य संमतम् (दु० टी०)। २. आदिग्रहणं वैचित्र्यार्थम् (दु० टी०)। [रूपसिद्धि]
१-२. कायः। चिञ् + घञ् + सि। निकायः। नि + चिञ् + घञ् + सि। केवल तथा 'नि' उपसर्ग-पूर्वक 'चित्र चयने' (४।५) धात् से 'घन' प्रत्यय, इज्वद्भाव, धातुघटित इकार की वृद्धि, आय् - आदेश तथा विभक्तिकार्य।।१२०७।
१२०८. संघे चानौत्तराधर्ये [४।५।३६] [सूत्रार्थ]
औत्तराधर्यभिन्न तथा सङ्घ अर्थ में 'चिञ्' धातु से 'घञ्' प्रत्यय तथा चकार को ककार आदेश होता है।।१२०८।
[दु० वृ०]
प्राणिनां समूहः सङ्घः उच्यते। अनौत्तराधयें संघे चार्थे चिनोतेर्घञ् भवति कश्चादेः। वैयाकरणनिकायः। अनौत्तराधर्ये इति किम् ? शूकरनिचयः।।१२०८।
[दु० टी०] "समुदोर्गणप्रशंसयोः'' (४।५।६४) इत्यत्र यद्यपि सामान्यार्थे डप्रत्ययो घनिरादेशश्च,