________________
कातन्त्रव्याकरणम्
आचामः । कथम् आम: ? 'अम रोगे' (१।१४०) इति चौरादिके इनि दीर्घः । वो श्रमेर्नञा निर्दिष्टस्यानित्यत्वाद् विश्रामः । कथम् उद्यमः ? 'यम च' (९/५५) इति चुरादौ मानुबन्धः । उपरम इति च दृश्यते ॥ ८५८ा
१०
[दु० टी० ]
न सेट: । सहेटा वर्तते इति सेट् । यद्यपि सहशब्दो विद्यमानार्थस्तथापीटोपलक्षिता: सेटोऽभिधीयन्ते, येषां ‘‘यमिरमिनमिगमेर्मात्" (३।७।२६) इति इट्प्रतिषेधोऽस्ति तेऽनिटः, घ्यणादिषु चेटोऽसम्भवात् । मकारोऽन्तो यस्येति विग्रहेऽकारोपधानामेव प्रतिषेधो यस्मादिकारोपधानामेव इच्कार्यं नास्तीति मन्दमतिबोधनार्थमेवामन्तस्येति कैश्चित् पठ्यते । कमेर्यदा इन्ङ् क्रियते तदास्य प्रतिषेध इत्याह वक्तव्यवादी - कामिनङ् धात्वन्तरगिति न्याय्यः पक्षः । अभिधानादाङ्पूर्वश्चमिरिति 'चमको विचमकः' इत्यादिषु प्रतिषेध एव । केचिद् आचम इति पठन्ति वाक्यकारस्य सम्मतम्, सूत्रकारस्य सम्मतमविशेषेण लक्ष्यते । अन्ये तु इज्वद् इत्यनुवर्तयन्ति तेषामिचि दीर्घ एव 'अशामि, अतामि' इत्यादि । आनुबन्धप्रतिषेधे इञ्मात्रस्मरणमुक्तमिति तु न सूत्रकारसम्मतम्, नैतल्लक्षणं व्याकरणान्तरे दृश्यते । कथमित्यादि । आमनम् आमः, स्वरान्तत्वादल् इत्याह- अम रोगे इत्यादि । हेतुविवक्षया वा अमेभवादिकादपि । वौ श्रमेरित्यादि । 'अविश्रमं यावदिदं शरीरम्' इति । तस्माद् वाक्यकार आह वौ श्रमेर्विभाषेति । कथम् उद्यम इति । मानुबन्धत्वाद् हस्व इति शेषः । भौवादिकस्य वा 'अड उद्यमे' (१।१२७) इति दर्शनान्न दीर्घः । उपरम इति । ‘यम उपरमे' (१।१५८) इति निर्देशाच्चेति । अन्तग्रहणं स्पष्टार्थम् ||८५८ा
—
[वि०प०]
न सेट: । इटा सह वर्तते इति सेट् । इह णानुबन्धेषु घञादिषु साक्षादिटोऽसम्भवाद् यस्य ‘यमिरमिनमिगमेर्मात्" (३।७।२६) इत्यनेन इट्प्रतिषेधो नास्ति, स इह इटोपलक्षितं सेडुच्यते । अशमि, अतमीति । " भावकर्मणोश्च" (३।२।३०) इतीचि कृते "अस्योपधायाः " (३।६।५) इत्यादिना दीर्घः प्राप्तो न भवति । यद्यपि इज्वदिति समुदायोऽनुवर्तते, तथाप्यधिकारस्येष्टत्वादेकदेशे इजेव स्मर्यते इत्युक्तम् । अतः इचि कृतस्य कार्यस्य प्रतिषिद्धत्वात् तद्वद्भूते कृति णानुबन्धेऽपि चैवं प्रनिषेध इत्याह - णानुबन्धे कृतीज्वद्भावाच्चेति। शमी, तमीति – ‘‘शमामष्टानां घिणिन्" (४।४।२१) अकामीति । "आयादयोऽसार्वधातुके वा'' इति वचनाद् यदा कमेरिनङ् न क्रियते तदैवमुदाहरणं वक्तव्यपक्षे संग्रहपक्षे तु कामिङ्धात्वन्तरादन्य एव कमिर्धातुरिति । अभिधानादाङ्पूर्वश्चमिरिति। 'चमकः, विचमकः ' इत्यादौ दीर्घप्रतिषेध एव । एतद् वृत्तिकारस्य मतमिति । सूत्रकारस्य तु मतं वर्णयन्तिअविशेषेणैव प्रतिषेध इति। अन्यथा हि सूत्रे आचमामिति पठेदिति मन्यन्ते । कथमित्यादि । आमनम् आमः, स्वरान्तत्वादन् । वौ श्रमेरिति । प्रतिषेधो ऽपि दृश्यते -
अविश्रमं यावदिदं शरीरं पतत्यवश्यं परिणामदुर्वहम् ।