SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः किमौषधं पृच्छसि मूढ! दुर्मते ! निरामयं कृष्णरसायनं पिब ।। कथम् उद्यम इति । चुरादित्वादिन् । मानुबन्धानां ह्रस्वः, पूर्ववद् अल् प्रत्ययश्चेत्यर्थः। उपरम इति चेति । यम उपरमे (१।१५८) इति निर्देशादित्यर्थः ॥८५८। [क० च०] न सेटो० । अथ सहशब्दो विद्यमानवचनस्तुल्यप्रतियोगिवचनश्च। यथा सहभर्तृका गर्भिणी, भर्तरि विद्यमाने गर्भिणीत्यर्थः। सपुत्रकः पिता भुङ्क्ते। पिता भुङ्क्ते पुत्रश्च । अत्र तु इचि परे उभयार्थोऽपि सम्भवति, तत् कथं सेट्त्वमिति? सत्यम् , असम्भवादन्यस्मिन् प्रत्यये सेट्त्वात् सेट्त्वमुच्यते? अथ तथापि यत् किञ्चित् पदे सेट्त्वात् सेट्त्वमुच्यते अथवा यावत्पदे सेट्त्वात् सेट्त्वमुच्यते? आद्यश्चेत् सेड्ग्रहणस्य व्यावृत्तिरेव नास्ति। स्रादिनियमेन परोक्षायां सर्वेषामिटः सम्भवात्। द्वितीयश्चेद् अशमीति दुष्टम्, शान्त इत्यत्रासेट्त्वात् सर्वथा सेट्त्वं नास्ति तद् यमधातुरपि सेडिति? सत्यम्। अनेन मकारान्तद्वारा विधानात् श्रुतत्वाद् यत्र मान्तद्वारा इट्प्रतिषेधस्तत्रैव सेड्ग्रहणस्य व्यावृत्तिरिति, तच्च यमिरमीत्यादिनैव न्यायात्। मकारोऽन्तो यस्यासौ मान्तः, न तु अमन्तो यस्येति प्रयोजनाभावात्। तर्हि अतेमीदित्यादौ मान्तत्वादनेनैव गुणनिषेधः कथन्न स्यात, अमन्तपक्षे न भवति तिमेरिमन्तत्वात्? सत्यम्, अत्र इज्लिखितकार्यस्यैव निषेधात्। न च इग्लिखितो गुणः, यद् वा वमादीनामस्योपधाया दीर्घत्वे प्राप्ते निषेधः। विधातपि तस्यैवेति यादृग्जातीयस्येति न्यायात् साहचर्याद् वा। नु ‘पदार्थः पदार्थेनान्वेति न तु पदैकदेशेन' इति इज्वदिति समुदायस्यानुवृत्तौ 'शमः, शमकः' इत्येवोदाहरणं युक्तम्, कथम् अशमीत्याह - इजमात्रमिहेति। कारणमत्र सेडमन्तस्येति सिद्धे यद् भिन्नपदं तदधिकृतस्य इज्वदित्यस्यापि पदभेदोपलक्षणार्थम्। पञ्जिकायां तु इष्टत्वाद् इच्छाविषयीकृतत्वादिति बोध्यम् , इच्छाविषये कारणमिदमेवेति। इचि प्राप्तस्य कार्यस्य निषेधाद् ञ्णानुबन्धे कथं प्रतिषेध इत्याह-ज्णानुबन्धेत्यादि। चकार एवार्थे इज्वद्भावादेवेत्यर्थः। अयमर्थः - ञ्णानुबन्धस्य इचि कृतं कार्यमतिदिश्यते। तत्र यदि इच्येव निषिद्धम् , तदा मूल एव निहित: कुठारः इति कुतस्तद्भूते तद्वति प्राप्तिरिति। पञ्जिका अविश्रमम् इति अविश्रमं यावदिदं शरीरं पतत्यवश्यं परिणामदुर्वहम् । किमौषधं पृच्छसि मूढ ! दुर्मते ! निरामयं कृष्णरसायनं पिब ।। इति पूर्णोऽयं श्लोकः ।।८५८ [समीक्षा] 'अशमि, अतमि, शमकः, तमकः, शमः, दम:' आदि के सिद्ध्यर्थ उपधावृद्धि
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy