________________
चतुर्थे कृदध्याये पञ्चमो घञादिपादः
४३३
सुखावह इति। ननु संख्याताविति सूत्रमास्तां किं क्रियाशब्दविशिष्टेन परिमाणग्रहणेन? सत्यम् , संख्याया: संख्यातार्थाद् धातोरित्युच्यमाने 'प्रस्थनिश्चायः' इति न सिध्यति। नात्र संख्यातार्थो धात्वर्थ इति, नैवम् । सामर्थ्यादत्राप्येकादिसंख्यावगमादिति, यथा प्रस्थस्य स्थाली अपरिमितप्रस्थनिश्चयेऽपि प्रस्थप्रयोगोऽनर्थक: स्यात्? सत्यम्, प्रतिपत्तिरियं गरीयसीति।।११७७।
[वि० प०]
सर्वस्मात् । परिमेयस्याभावात् कथं परिमाणमित्याह-परिमेयत्वादिति। क्रियाभावो हि धात्:, स च परिमाणविषये वर्तितुं नोत्सहते इति। अर्थाद् धात्वर्थ: परिमेयभूतो वर्तते। तत्र चार्थे कार्याभावात् तद्वाचिनो धातोः प्रत्यय: संज्ञा च समुदायेनैव गम्यते। श्रुतत्तान्निश्चायादयः परिमाणस्यैव संज्ञेति। संख्येत्यादि। संख्यया परिमीयते परिच्छिद्यते इति साऽपि परिमाणमत्राभिधीयते, न तु रूढं प्रस्थादिकमेवेति भावः। द्वौ शूर्पनिष्पावाविति। "निरभ्योः पूल्वोः " (४।५।१७) इति घञ् सिद्ध एव, परिमाणविषयत्वादिहोदाहृतम्। अल इत्यादि। कथमिदं निश्चितम् अल एव बाधको न तु क्त्यादीनामिति। नहीह 'पुरस्तादपवादा अनन्तरान् विधीन् बाधन्ते न परान्' (व्या० परि० ९) इति परिभाषितमस्तीति? सत्यम्, 'अनन्तरस्य विधिः प्रतिषेधो वा' (का० परि० १९) इति लौकिकादेव न्यायात् सिध्यतीति। सर्वस्मादिति। स्वरान्तापेक्षयेदमुच्यते, तत्रैवाल्विधे: सम्भवात् । तेन सर्वशब्दो व्याप्त्यर्थकोऽपि पञ्चम्यन्तत्वाद् धातोः समानाधिकरणो धात्वाश्रितस्यैवापवादस्य बाधको भवति नार्थाश्रितस्य। एवं 'कृ विक्षेपे' (५।२१)। एक: कारः, द्वौ काराविति। अर्थाश्रितस्तु भवत्येव। यथा स्त्रियामर्थे क्तिः, नपंसके चार्थे यूट। अन्यथा अल इव क्तियूटोरप्यनेन बाधा स्यादिति भावः। कथमित्यादि। "उणादयो भूतेऽपि' (४।४।६७) इत्यतो मण्डूकप्लुतिन्यायेनापिशब्दो वर्तते, तेनाल्प्रत्ययोऽपीत्यर्थः।। ११७७।
[क० च०]
सर्वस्मात् ०। परिमीयते परिच्छिद्यते येन तत् परिमाणम् इत्यर्थे संख्या प्रस्थादिश्च परिमाणमिष्यते न तु योगरूढत्वात् प्रस्थादिरेव तर्हि अन्वर्थबलात् काल: कथं न गृह्यते, तेनापि परिमीयते यत:? सत्यम् , इष्टत्वान्न तस्य ग्रहणम्, परिमेयश्च धात्वर्थमन्तरेण नान्यार्थः सम्भवतीति, ततश्च परिमाणे संख्या प्रस्थादिविषये वर्तमानो यो धात्वर्थः परिमेयभूतस्तत: प्रत्ययो भवन्नर्थे कार्यासम्भवात् तद्वाचिनो धातोः सर्वस्माद् घञ् भवतीति सूत्रार्थः। अथ परिमाणे इत्यभिधेयसप्तमी कथन्न स्यात्? सत्यम् । अकर्तरीत्यनुवर्तते, तदेव प्रत्ययविशेषणम् । अथ तेन किम् ? अन्यदपि विशेषणं भविष्यति। तथाहि परिमाणे किम्भूते अकर्तरि कारके इति? सत्यम्, सर्वस्माद् इत्युपस्थितस्य विशेषणत्वसम्भवेऽनुपस्थितस्य प्रत्ययस्य कल्पनाया अनौचित्यात् ।।
यद् वा प्रत्ययश्चैकेनैव विशेषणेन चरितार्थ:, अन्यविशेषणकल्पनाया अयुक्तत्वाद् व्याप्तिन्यायान्नाभिधेयसप्तमीति सागरः। नन् संख्यादिपरिमाणविषये केन प्रकारेण