SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ ४३४ कातन्त्रव्याकरणम् धात्वथों वर्तत? परिमेयत्वन चेत् . पन्नियग्रहणं लत्रं दातुमुचितम्. सर्वस्मात् परिमेयादिति, तदभावात् कथं धात्वर्थन्य परिमेयत्वप्रनीतिरित्याह- परिमेयत्वादिति। 'त्वतल्भ्यां सम्बन्धाभिधानम्' इति भाष्यात् सम्बन्धमात्र त्वप्रत्ययस्तंनायमर्थः-यत: परिमेयसम्बन्धादेव परिमाणत्वं सम्भवति। अतो धात्वर्थः परिमाणविषये परिमेयत्वेन वर्तते इति न कार्य परिमेयग्रहणमिति। सागरन्नु विना परिमेयेण परिमाणं न भवतीति परिमेयाभावात् कथं परिमाणप्रतीतिरित्याह-धाचर्थस्य परिमेयत्वादिति। धात्वर्थस्य परिमेयत्वात् परिमाणं प्रमीयत इत्यर्थ इत्याचष्ट। भावादिति पञ्जी। सद्भावादित्यर्थः। ननु यदि अनन्तरस्य विधिरित्यादिन्यायादल एवायं वाधकस्तत् किं सर्वस्मादित्यनेन? सत्यम्, 'अनन्तरस्य विधिः प्रतिषेधो वा' (का० परि० १९) इत्यस्य व्यञ्जनान्तान् प्राप्तस्य क्त्यादेरनर्थकतेत्यनेनैव चरितार्थता स्वरान्ताच्चानेनालो बाधकत्वाद् घजेव स्यादिति सर्वग्रहणमिति हेमः। ___ अथालो वाधको घञ् कथं स्त्रियां नपुंसके च न स्याद् येन क्त्यादेर्बाधक इति? सत्यम्, सुखार्थं सर्वग्रहणम् । अत एवेति। स्वरान्तादेवत्यर्थः। अथ ग्रहेरपि अलो बाधासम्भवः। तथा च वक्ष्यति—एक: शाकसंग्रह इति? सत्यम् , तदर्थं नेदं सूत्रम् , तथा "समि मुष्टौ'' (४।५।२६) इत्यनेनैव सिद्धम् , किन्तु यदि एकस्तण्डुलनिश्चाय: इत्याद्यर्थ सूत्रं तदा एतदपि विषयीकरोतीति न्यायादुक्तम्-तेनेति। ननु यद्यलो बाधकमिदं सूत्रं तदा सर्वस्मादिति व्याप्तिवचनमनर्थकं स्यात् तद्बलाद् व्यवहितानामपि क्त्यादीनां न कथं बाधकमिति? नैवम् । तदा सर्वस्मादित्यर्थे सर्ववेत्यर्थनिर्देशं कुर्यात् , तस्माद् धातुसमानाधिकरणप्रकृतिनिर्देशात् सर्वग्रहणं बोधयति-सूत्रे धातुमात्रश्रुत्या यत् कार्य प्रतीयते तदेवानेन विधीयते इत्याह–पञ्चम्यन्तादिति। एकस्तण्डुलनिश्चाय इति कर्मणि घञ्। निश्चीयते इति निश्चायः। तण्डुलश्चासौ निश्चायश्चेति तण्डुलनिश्चायः। भावे वातण्डुलस्य निश्चायस्तण्डुलनिश्चायः इत्येवं सर्वत्र बोध्यम् ।।११७७। [समीक्षा ‘एकस्तण्डुलनिश्चायः, द्वौ शूर्पनिष्पावो' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'घञ्' प्रत्यय किया गया है। पाणिनि का सूत्र है- “परिमाणाख्यायां सर्वेभ्यः'' (अ०३।३।२०)। इस प्रकार उभयत्र पूर्णरूपेण समानता ही है। [विशेष वचन] १. प्रपञ्चः सुखावहः (दु० टी०)। २. प्रतिपत्तिरियं गरीयसी (दु० टी०)। ३. सुखार्थं सर्वग्रहणम् (क० च०)। [रूपसिद्धि १. निश्चायः। निर् - चि - घञ् - सि। निश्चीयते यः। 'निर्' उपसर्गपूर्वक 'चिञ् चयन' (४।८) धातु से प्रकृत सूत्र द्वारा 'घ' प्रत्यय, इज्वद्भाव, वृद्धि, आयादेश, रेफ को विसर्ग, विसर्ग को शकार तथा विभक्तिकार्य।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy