________________
४३२
कातन्त्रव्याकरणम
[दु० वृ०]
परिमेयत्वात् परिमाणम् । परिमाणविषये वर्तमानात् सर्वस्माद् धातोघंञ् भवति कर्तृवर्जिते कारके भावे च संज्ञायां गम्यमानायाम् । संख्या प्रस्थादिर्वा परिमाणम् । एकस्तण्डुलनिश्चायः, द्वौ शूर्पनिष्पावौ, प्रस्थनिश्चायः, द्रोणावक्षायः। अलो वाधकत्वात् सर्वस्माद् भवति। सर्वस्मादिति ज्ञापयति- धात्वाश्रितः प्रत्ययो घना बाध्यते, न त्वर्थाश्रित इति। तेनैका तिलोच्छित्तिः (ड्रितिः), द्वे श्रुती तैलस्य, क्तिरेवेकं श्रवणम्, द्वे प्रस्थाने, युट् सिद्धः। कथमेको निश्चयः? अप्यधिकारात् ।।११७७।
[दु० टी०]
सर्व०। न विना परिमेयेण परिमाणमित्याह-परिमेयत्वादिति। धातुः कथं परिमाणविषये वर्तते, अर्थे कार्यस्यासम्भवात् तद्वाचिन: प्रत्ययसमुदायस्य न चेह संज्ञा गम्यते, श्रुतत्वात् परिमाणस्यैव निश्चायादयः सज्ञा परिमाणशब्दोऽप्यत्र क्रियाशब्दो गृह्यतेऽभिधानात्, न तु रूढाः प्रस्थादयः। संख्यायाः परिमीयते इति संख्यापि परिमाणमित्याह-संख्येत्यादि। बाधकबाधनार्थं वचनं घनुक्रमणम् । ननु शूर्पनिष्पावाविति कथमुदाहरणम् “निरभ्योः पूल्वोः " (४।५।१७) इत्यनेन घजस्त्येव ? सत्यम्, परिमाणसंज्ञाविर्भावनमेव फलम् । अलो बाधकत्वादित्यादि। कथमेतदवसीयतेऽल एवायं बाधको न क्त्यादीनामिति 'पुरस्तादपवादोऽनन्तरान् विधीन् बाधते' (व्या० परि० ९) इति नात्र शास्त्रपरिभाषितमेतत् ? सत्यम् , लौकिकोऽयमन्यत्र न्यायः 'अनन्तरस्य विधिः प्रतिषेधो वा' (का० परि० १९) इति। यथा कश्चिदर्थार्थी गृहाद् गृहान्तरं गच्छन् यद्यनन्तरगेह एवार्थं लभते, स नापरं गृहं याति, तत्रैव कृतार्थत्वात् । प्रत्यासत्तिरियमतो बहुलार्थेन यदा प्रयोजनमस्य गृहान्तगण्यपि संविशतीति व्याप्तिरपि दृश्यते ।
अथवा त्यक्तावयं न्यायोऽनन्तरत्वं परत्वं च सम्भवति विधीनां जातेरेकत्वात् कथं क्त्यादीनां बाधाप्रत्यासत्तेश्च न्यायस्याभावाद् व्यावृत्तिरेव स्यात् । सर्वशब्दो व्याप्त्यर्थोऽपि पञ्चम्यन्तो धातुसमानाधिकरणो धात्वाश्रितस्यैवापवादस्य बाधको भवति, 'एकः कारो द्वौ कारौ' इति नार्थाश्रितस्य तेन स्त्रियामर्थे क्ति: सिद्धा नपुंसके चार्थे युट् सिद्धः इत्यर्थः। सर्वग्रहणमन्तरेण पञ्चमी न लभ्यते इति सर्वशब्दोपादानम् । कथमिति। "उणादयो भूतेऽपि' (४।४।६७) इत्यतो मण्डूकगतिन्यायेनापि भवतीत्यर्थः। यद्येवं बहुलार्थत्वादेव क्त्यादयो भविष्यतीति किं सर्वस्मादित्यनेन? सत्यम् ? प्रपञ्चः