________________
४३०
कातन्त्रव्याकरणम्
सज्ञापि गम्यते इति, तदा कारकग्रहणं सुखार्थमेवेति।।११७६।
[क० च०]
अकर्तरि० । यद्यपि पूर्वेणैव भावे सिद्धस्तथापि चकारेण तस्यानकर्षणम् उत्तरार्थम, -तेन 'चानुकृष्टं नोत्तरार्थम्' (का० परि०२२) इति देश्यमपास्तम् . स्वसूत्रे सफलत्वे सति तस्य विषयत्वात् । 'प्रासः' इत्यस्त्रविशषः। "लुग्लोपे न प्रत्ययकृतम्' (३।८।२९) इति पञ्जी। नन् कथमेतद् इनो लुकि सति निमित्ताभावाद् वृद्धिरपि निवर्तते इति ज़रूपेण स्थितिः। न च प्रत्ययलोपे प्रत्ययलक्षणो विधिरितीनोऽभावे वृद्धिरिति वाच्यम्, "लुग्लोपे०' (३।८।२९) इत्यनेन निषेधात् । लोपपक्षे तु प्रत्ययलोपलक्षण इति पुन: स्याद् वृद्धिरिति? सत्यम् । 'छादेर्पस्मन्तृन्' (४।१।१९) इत्यादिज्ञापकात् क्वचिन्निमित्ताभाव इति नास्तीत्युक्तमेव। अतोऽत्रापि इनो लुक्यपि न निमित्ताभाव:, "अस्योपधायाः" (३।६।५) इत्यत्र विषयसप्तमीस्वीकारादित्यन्ये।
नन् लुग्वचनादेव न जरतेर्निमित्ताभाव:, अन्यथा इनो लोपे मान्बन्धत्वाद् ह्रस्वत्वे सति सिद्धे किं लुग्वचनेनेति सागरः। ननु तथापि कारितलुक् न क्रियताम् इनो लोपे प्रत्ययलोपलक्षणत्वाद ह्रस्वत्वे सति घजि पुनरुपधाया दीघों भविष्यतीत्याह-न चेति। स्वरादेश इति। ननु कथमिदमुक्तं न पदान्त० इत्यादिना दीर्घविधिं प्रति स्थानिवद्भावस्य प्रतिषेधात् ? सत्यम् । प्रथमकक्षायामिदमुक्तम् , किन्तु घञि दीर्घत्वेऽपि प्रत्ययलोपे प्रत्ययलक्षणमिति पुनरिनि ह्रस्व: स्यादिति हेमः। "प्रत्ययलुकां चानाम्" (४।१।४) इति प्रतिषेधान्न दीर्घ इति कुलचन्द्रः। ननु इनो लुकि जरयते: प्रत्ययलोप: इत्यनेनैव प्राप्तस्य ह्रस्वस्य "लुग्लोपे०" (३।८।२९) इत्यादिना निषेधः, स्थानिवद्भावेन जारः इति स्यादित्याह- लुकि त्विति। यद् वा भवतु जरयतेरिनो लुकि निमित्ताभावस्तथापि न दोषः। घञि "अस्योपधाया दीर्घः' (३।६।५) इत्यादिना वृद्धौ जार इत्यसिद्धत्वात् । अथ प्रत्ययलोपलक्षणन्यायेन प्राप्तस्य कार्यस्य लुग्लोपत्वान्निषेधः, इनो लुप्तस्य स्वरादेश इत्यादिना स्थानिवद्भावात् सिद्धौ सत्यां मानुबन्धेत्यादिना ह्रस्वत्वे सत्यप्यनिष्टं स्यात् , नैवम् इत्याह-लुकि त्विति वैद्यः।
यद् वा भवतु जरयतेरिनो लुकि निमित्ताभावाद् ज़रूपस्थितिस्तथापि न दोषः। घनि "अस्योपधायाः" (३।६।५) इत्यादिना वृद्धेः सम्भवात् । अथ स्थानिवद्भावादिनो नाम्यन्तत्वाभावे कथं वृद्धिरित्याह- लुकीति। उपधाया दीर्घत्वं स्यादिति उत्पद्यते इति नार्थ:। किन्तु स्यात् सत्तायोगी तिष्ठतीति यावद् दीर्घविधानाभावात् । अस्मन्मते तु वृद्धौ सत्यां स्याद् उत्पद्यते इत्यर्थः। एतेन "प्रत्ययलुकां चानाम्' (४।१।४) इति प्रतिषेधात् कथं वद्धिरिति देश्यमपास्तं निरपेक्षत्वात् प्रत्ययलुगेव भवतीति। ननु जरयतेरिनि पूर्वमेव ह्रस्वोऽभूत्, तत् कथमिदमुद्यते लुकि सति ह्रस्वो न भवतीति? सत्यम्, भूतपूर्वमपि ह्रस्वत्वमिनो लुकि सति निमित्ताभावानिवर्तते तर्हि वृद्धिः कथं निवर्तते चेद्