________________
चतुर्थे कृदध्याये पञ्चमो घञादिपादः
४२९
[वि० प०]
अकर्त०। 'प्राकारः, प्रासादः' इति ह्रस्वस्य दीर्घता। दारजारौ कर्तरि कारितस्य लुक् चेति वक्तव्यमिति कैश्चित् । 'द विदारणे, जृष् झम् वयोहानौ' (८।१९;३।१८) आभ्यां कारितान्ताभ्यां कर्तरि तृजादौ प्राप्ते घञि कारितस्य लुक् चेति निपात्यते। कारितलोप: सिद्ध एव, किन्तु लोपे सति प्रत्ययलोपलक्षणेन जरतेर्मानुबन्धत्वाद् ह्रस्वत्वं स्यादिति लुक् निपात्यते, तेन "लुग्लोपे न प्रत्ययकृतम्' इति भावः। न च ह्रस्वत्वे पुनर्घञ्युपधाया दीर्घ इति युज्यते वक्तुम्, स्वरादेशः परनिमित्तकः पूर्वविधिं प्रति स्थानिवद्भावादुपधैव न स्यादिति, लुकि तु निरपेक्षे न स्थानिवद्भाव इत्युपधादी? घजि स्यादेव। यथा दारयन्तीति दाराः, तदिह न वक्तव्यम्,करणत्वविवक्षायां सिद्धत्वादित्याह- दीर्यन्ते इत्यादि। तथाहि ये दारयन्ति तैरसौ दीर्यते, यश्च जरयति तेनासौ जीर्यते इति नार्थो भिद्यते। कारितान्ताभ्यां कर्तर्यचा सिध्यतीति न वक्तव्यम्, तृजादेरपि प्रसङ्गगात् कारितस्य लुक् चेति वक्तव्यप्रसङ्गाच्च। अन्यथा प्रत्ययलोपलक्षणेन जरयतेर्मानुबन्धत्वाद् ह्रस्वत्वं स्यादित्युक्तम् ।
ननु घञव नास्ति ऋकारान्तत्वादनयोरला भवितव्यम्, यद् वक्ष्यति– 'दीर्घादलेव, कृ- करः, गृ-गरः' इति? सत्यम् । अभिधानादाभ्यां घञ् भविष्यतीति न दोषः। सञ्ज्ञायामिति प्रायोवृत्त्यर्थमित्याह- असंज्ञायामपीति । अथ कारकग्रहणं किमर्थम् अकर्तरीति पर्युदासात् कर्तृसदृशे कारके भविष्यति, तर्हि प्रसज्यपक्षे दुष्यति, तत्र हि क्रियाप्रतिषेधमात्रं प्रतीयते कर्तरि न भवति, न त् तत्सदृशं वस्त्वन्तरमिति कथं कारके स्यात् । नैवं प्रसज्यवृत्तिरभावमात्रविषयो नञ्, तस्य क्रिययैव सम्बन्धो नोत्तरपदेनेति सामर्थ्याभावात् । तथा चाकर्तरीति पर्युदासवृत्तेरेवायं समासो न प्रसज्यवृत्तिरिति तर्हि कथमयं प्रसङ्गः? सत्यम् । इदमेव कारकग्रहणं बोधयति-असामर्थेऽपि समास इत्याहकारकेत्यादि। तेनार्वनर्वन्तिरसावनबित्यत्रासाविति प्रसज्यसमासादनपेक्षे एवार्वन्ति: सर्वत्र भवतीति व्याख्यानान्तरं सिद्धम्। यदि पुनरसामर्थे समासो गमकत्वाद् भविष्यतीत्युच्यते, तदा कारकग्रहणमर्थान्तरनिवृत्त्यर्थमेव भवति। प्रसज्यसमासे हि कारकग्रहणमन्तरेणानिर्दिष्टाथों घञ् स्वार्थेऽपि स्यात् ।
ननु स्वार्थो हि भाव:, तत्र पूर्वेणैव सिद्ध इति वचनादर्थान्तरे कर्मादौ भविष्यतीति, नैवम् । द्विविधो हि भाव:- बाह्यः आभ्यन्तरश्च। बाहाः सिद्धताख्यः, इतर: साध्यताख्यः। तत्र बाह्ये घञ् सिद्ध:, अनेनाभ्यन्तरे स्यादिति। यथोक्तम् – पूर्वापरीभूतं भावमाख्यातमाचष्टे इति। तर्हि सिद्धतासाध्यतारहिते धात्वर्थमात्रे स्यादिति चेत् , तदयुक्तम् । अनेन हि सामान्ये सिद्धताख्ये स्वार्थेऽपि घञि सिद्धे पूर्वोक्तभावो नियमाों भविष्यति। भाव एवाभिधेये घञ् , न तु केवले स्वार्थे। तस्माद् ‘अकर्तरि च कारके संज्ञायाम्' इत्युक्ते प्रसज्यप्रतिषेधेऽपि अन्यत्रानुपपद्यमानो घञ् कर्मादिषु कारकेष्वेव भविष्यति न खल्वन्यथा