SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ४२८ कातन्त्रव्याकरणम् यथा दण्डः, शुक्लः, पक्तिश्चैत्रो गौरिति। पुनश्च षोढा कर्मादिभेदात् । पुनश्च द्विधास्वशब्दवाच्यम् अन्यशब्दवाच्यं च। यथा पाक्यं कृतः कर्ता गोघ्न: प्रियम्भविष्णुरिति। शब्दान्तरवाच्यो यथा देवदत्त: काष्ठैः स्थाल्यामोदनं पचतीति। अथ किं द्रव्यादय एव कादिरूपका: कारकम् उत तच्छक्ति: शक्तिमन्तो वा द्रव्यादयः। न तावत् पूर्व: पक्षो यदि द्रव्यमेव कारकं न विशिष्टं नवा शक्तिस्तदा स्थाली पचतीति स्थालीरूपत्वेन पचतिक्रियायां कर्तृकारकमित्युक्तेऽधिकरणादिकं न स्यात् , कारकाणां परस्परव्यावृत्तिरूपत्वात्। अथ क्रियाश्रयत्वेन कर्तृत्वमन्यरूपेण कर्मादित्वमिति चेद् इदमेव शक्तिमदिति कतो यत: खलु येन रूपेण स्वस्यां क्रियायां निमित्ततामापद्यते, न त् तेनैव क्रियान्तरस्य। न तु शब्दा: शब्दज्ञानस्य कारणभावमापद्यमानाः कदाचित् क्वचिदपि नीलादिज्ञानस्य कारणं भवन्ति। तथा च सति स्थाली पचति, स्थाल्या पचति, स्थाल्यां पचतीति नोपपद्यते, सर्वेषां कारकाणां परस्परव्यावृत्तिरूपत्वात् । अस्तु तर्हि शक्तिः कारकम्। भिन्ना हि शक्तयः, भिन्नाः शक्तयाधाराश्चेति द्रव्यादयो भवन्ति। तत्र या या शक्तियेन येन स्वरूपेण विवक्ष्यते तेन तेन तत् कारकं भविष्यति। विवक्षातो हि कारकाणि भवन्ति। शक्तिमन्तो वा द्रव्यादयः एव कारकम् । दृश्यते हि वस्तुन्यभिन्नेऽपि पुत्रः पिता पितामहो मातुल इति पार्थिवो द्रव्यं घटो मूर्तः। शक्तिभेदनिबन्धनो व्यपदेशभेद इति करणादिशक्तिमन्तो द्रव्यादय: कारकम् । यथा कर्तुः समवायिनी कर्मसमवायिनी च क्रियामभिनिर्वर्तयत: पारम्पर्यक्रमेण कर्तृत्वम् । तथा कर्मणोऽपि क्रियायाः समुत्पद्यमानस्य सम्बन्धमनुभवतो व्याप्तो निमित्तभावस्तथा करणस्यापि छेदानुप्रवेशेन परशोः। तथा सम्प्रदानस्यापादानस्याधारस्य च त्यागोपगमनधारणक्रियाया निमित्तभावात् सर्वेषां यथायथं क्रियासु प्रवर्तयिता कर्ता प्रधानमित्युच्यते। भाव इत्यस्य निवृत्त्याशङ्कानिरासार्थश्चकार: क्रियते। ननु कर्तरीति पर्यदासात् कर्मादिष्वेव भविष्यति किं कारकग्रहणेन प्रसज्यनिषेधोऽपि नैव, भावे पूर्वेण सिद्धत्वात् ? सत्यम्, पूर्वोक्तभावो नियमार्थः, भाव एवाभिधेये येन स्वार्थ इति मन्यमान आह-कारकेत्यादि। प्रसज्यप्रतिषेधेऽपि कारकग्रहणं यत् किञ्चिदेतदसम्बन्धसमानानामसकृज्ज्ञापितत्वात् । संज्ञायामिति प्रायोवृत्त्यर्थमित्याहसंज्ञायामपीति। अथवा दायो लाभ इति भाव एव प्रत्ययो द्रव्येणाभिंसम्बन्धादत्र व्यावृत्तिः सिध्यति। यथा विंशतिरश्वाः शतं गाव: इति। दारजारावचि सिद्धाविति चेद् इनो लुक् चेति वक्तव्यं स्यात् । लुग्लोपत्वान्मानुबन्धत्वाद् ह्रस्वप्रतिषेध इति। तथाहि ये दारयन्ति तैरसो दीर्यते, यश्च जरयति तेनासौ जीर्यते इति नार्थभेदः, अनिर्दिष्टकालत्वाद् भूतेऽपि भविष्यत्यपि पराक्षेऽपि घजादयो योज्या: विवक्षावशात् । अकर्तरि च कारके संज्ञायामिति भावे चेत्यधिकारस्यावधिः कृत्ययुटोऽन्यत्रापीति वचनम् ।।११७६।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy