________________
चतुर्थे कृदध्याये पञ्चमो घञादिपादः
>
सत्यम्, अनेन साध्यमिति केनोच्यते किन्त्वत्र सर्तेरनुवर्तते "श्रिनीभूभ्यः" (४|५|१०) इत्यनेन सिध्यतीति भावः । अथ कथन सिध्यतीति चेद् उच्यते- अकर्तरि चेत्यत्र चकाराद् भावानुकर्षणेन ‘पाक:' इत्यादि सिद्धम् । ततश्च भावाधिकारस्य चानुकृष्टत्वादुत्तरत्र सम्बन्धो नास्तीति भूधातोः श्रिनीत्यादिना भावे घञ्, अल् न प्राप्नोतीति । अथ स्थितिपक्षेऽप्येवं कथन्न स्यात् नैवम् । स्थितौ भाव इत्यनेनैव सूत्रेण पाक इत्यादि पदं साध्यते। अतः अकर्तरीति सूत्रे चकारस्य फलं नास्तीति चकारेण भावानुकर्षणम् इङाभ्यां चेत्यनेनानुकर्षणार्थं भविष्यति । इदानीं 'पाकः' इत्यादिसिद्ध्यर्थं स्वसूत्र एव फलमस्तीति कथमुत्तरार्थं भविष्यतीति स्वरान्तादल्बाधकः इति व्यञ्जनान्तादुपतिष्ठते। दूषणान्तरमाह — किञ्चेति तथेत्यर्थः । घञ् विधिमिति । घञादिविधिमित्यर्थः । घञ्विधावित्युपलक्षणमेतद् घञादिविधावित्यर्थः ।। ११७५ ।
[समीक्षा]
४२७
‘पाक:, रागः' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'घञ्' प्रत्यय का विधान किया है। पाणिनि का सूत्र है " भावे" (अ०३ | ३|१८ ) । इस प्रकार उभयत्र पूर्ण समानता है।
-
[रूपसिद्धि]
१. पाकः, पाकौ, पाकाः । पच् + घञ् + सि, औ, जस् । 'डु पचष् पाके' (१।६०३) धातु से प्रकृत सूत्र द्वारा 'घञ्' प्रत्यय, इज्वद्भाव, “अस्योपधाया दीर्घो वृद्धिर्नामिनामिनिचट्सु” ( ३।६।५ ) से धातुघटित उपधा को दीर्घ, "चजो: कगौ धुड्ङ्घानुबन्धयोः” (४।६।५६ ) से चकार को ककार, लिड्गसंज्ञा तथा विभक्तिकार्य ।। ११७५। ११७६. अकर्तरि च कारके संज्ञायाम् [४।५।४] [ सूत्रार्थ ]
संज्ञा होने पर कर्तृभिन्न कारक तथा भाव अर्थ में धातु से 'घञ्' प्रत्यय होता है ।। ११७६।
[दु० वृ० ]
कर्तृवर्जिते कारके भावे च धातोः संज्ञायां गम्यमानायां घञ् भवति । प्रकुर्वन्ति तमिति प्राकारः । प्राश्यते इति प्राशः । आहरन्ति तमिति आहारः । प्रसीदन्त्यस्मिन्नयनमनांसीति प्रासादः । दीर्यन्ते एभिरिति दाराः । जीर्यन्तेऽनेनेति जारः । अकर्तरीति किम् ? नदतीति नदः शोणः। असंज्ञायामपि दायो दत्तः, लाभो लब्धः । कारकग्रहणं प्रसज्यनञ्समासज्ञापनार्थम्
।। ११७६।
[दु० टी० ]
अक० । करोतीति कारकम् । क्रियायाः साधनं निर्वर्तकं निमित्तमिति पर्यायाः । एतेन योगरूढमिति प्रतिपादितम् । तत् पुनर्द्रव्यगुणक्रियासंज्ञाजातिभेदात् पञ्चविधम् ।