________________
४२६
कातन्त्रव्याकरणम्
एव भाव इति भवतेर्घञ्दर्शनात्। ननु तथापि सर्वस्मादिति कथं लभ्यते। भावो हि नाम भवतरर्थस्तस्मिन्नभिधये भवन् भवतेरेव स्यान्न पचादिभ्यः, न हि तेभ्य: उत्पन्नेन घजा भावोऽभिधातुं पार्यते। किं च पूर्वापरीभूतो धात्वों भाव उच्यते। तस्य चासत्वभूतत्वात् लिङ्गसंख्याभ्यां योगो न स्यादिति नैष दोषः। भवतिर्हि क्रियासामान्यवाची। यथोक्तम"कभ्वस्तयः सामान्यवचनाः' इति। क्रियासामान्यं च सर्वक्रियान्गतम्। अत: क्रियासामान्यवाचिना भवतिनाऽर्थनिर्देश: क्रियमाणः सर्वधातुविषयीकृतो भवतीति पचादिभ्यो घञ् भवति। स चायं भवत्यर्थः साध्यतालक्षण: सिद्धतालक्षणश्च। तत्र प्रथमस्त्यादिवाच्यः, द्वितीयस्तु द्रव्यरूपो घञादिवाच्यः। यथोक्तम्
क्रियायाः साध्यतावस्था सिद्धता च प्रकीर्तिता।
सिद्धतां द्रव्यमिच्छन्ति तत्रैवेच्छन्ति घविधिम्।। द्रव्यस्वभावाल्लिङ्गसंख्याभ्यामस्य योग इत्यालोच्याह- भवत्यर्थ इति। साधारणपर्यायो वाच्यलिङ्गः सामान्यशब्दोऽयम्। अतः क्रियासामान्य इति पुंसा निर्देशः। इह हीति। इह घविधौ हिशब्दो यस्मादर्थे। यस्मादिह घविधौ सत्त्वभूतो द्रव्यभूतो भवत्यर्थस्तस्मात् तदाश्रये द्विवचनबहुवचने पुंस्त्वं च युज्यते इति।।११७५।
[क० च०]
भावे। नन् भाव इति भूधातोरर्थस्तस्मिन्नभिधेये इत्युक्ते भूधातोरेव स्यात, कथं पचादेरित्याह- भवत्यर्थ इत्यादि। अयमर्थः- भावः सत्ता, सा च सर्वगता, नहि पदार्थः सत्तां जहाति, अयं सन् अयं सन्निति प्रतीयमानत्वात् । अतः क्रियास्वपि समवेतेति सत्तायां प्रत्ययो भवन् सर्वासु क्रियास्वपि भवति। अत एव भावः क्रियेति पर्यायः। तथा 'कृभ्वस्तयः क्रियासामान्यवचना:' इति स्थिते कृधातुः कथं सामान्यवचनश्चेद् उच्यते - करोत्यर्थः प्रयत्नः, स च सर्वास् क्रियासु कारणत्वेन विद्यते, ज्ञानेच्छाकृतीनां तुल्यकालविषयत्वात् । ततश्च कारणे कार्योपचारात् करोतीत्यर्थोऽपि क्रियासामान्य इति, तर्हि सत्तायाः केवललिङ्गसंख्याभ्यां योगो नास्तीति अद्रव्यरूपत्वात् । तत् कथं 'पाकः, पाको, पाका:' इति द्विवचनबहुवचने लिङ्गयोगश्चेत्याह- इह हीति। 'कृदभिहितभावो द्रव्यवत् प्रकाशते' (व्या० परि० पा० १११) इति स्वभावाद् इति भावः। तत्रापि तव्यादीनां नपुंसकलिङ्गयोगोऽस्ति, स्त्रीलिङ्गे च "स्त्रियां क्तिः" (४।५।७२) इत्यादयः। द्वित्वादिसंख्यायोगो न दृश्यते। यथा देवदत्तेन भोक्तव्यमित्यादि।
ननु यथा द्रव्यतुल्यत्वाद् द्वित्वादियोगस्तथा लिङ्गप्रयोगः कथं न स्यात् । अत्र कश्चिद् आह- यदि लिङ्गत्रयमचितम, तथापि स्वभावाद् घञलौ पंसि विज्ञेयाविति। वस्तुतस्तु नपुंसके भावे क्तयुटौ बाधको स्तः, स्त्रीलिङ्गे च स्त्रियां क्तिरित्यादि पुंल्लिङ्गे च घजलाविति। अत एवेति पञ्जी। नन कथमेतत् "श्रिनीभूभ्योऽनुपसर्गे" (४।५।१०) इत्यनेनैव सिद्धेः। न च स्थितावप्यनेन भाव इति साध्यम् , अलो विषयत्वात् ?