SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ चतुर्थे कृदध्याये पञ्चमो घादिपादः ४२५ [विशेष वचन] १. प्रपञ्चा) पदिग्रहणम् (दु० वृ०)। २. 'सृ' इति लुप्तपञ्चम्येकवचनम् (वि० प०)। [रूपसिद्धि] १. सारः। सृ + घर + सि। सरति कालान्तरम् । 'सृ गतौ' (१।२७४) धातु से प्रकृत सूत्र द्वारा ‘घञ्' प्रत्यय, 'घ् - ञ् ' अनुबन्धों का प्रयोगाभाव, इज्वद्भाव, "अस्योपधाया दी? वृद्धिर्नामिनामिनिचट्सु” (३।६।५) से ऋकार की वृद्धि तथा विभक्तिकार्य। २. अतीसारो व्याधिः। अति + सृ + घञ् + सि। अतिसरन्त्यनेन प्राणिनः। प्रक्रिया प्राय: पूर्ववत् ॥११७४। ११७५. भावे [४।५।३] [सूत्रार्थ] 'भाव' अर्थ में सभी धातुओं से 'घञ्' प्रत्यय होता है।।११७५। [दु० वृ०] सर्वस्माद् धातो वे घञ् भवति। पाकः, पाको, पाकाः। भवत्यर्थः क्रियासामान्यः।इह हि सिद्धताख्यः सत्त्वभूत इति द्विवचनबहुवचने भवतः।।११७५। [दु० टी०] भावे। ननु भाव इति भवतिना घजन्तेन निर्देशस्ततश्च भवतेयों भावस्तस्मिन्नेव वाच्ये घञादिः स्यात्, स च भवतेरेवोत्पद्यमानेन घञादिना शक्यो विधातुं न पचादिभ्यः इत्याह- भवत्यर्थ इत्यादि। यथोक्तम् – 'कृभ्वस्तयः क्रियासामान्यवचनाः' इति। विशेषे सामान्यमस्तीति। भावस्य चत्वार आत्मानः- अभिधेयात्मा नान्तरीयक: परार्थोऽसाधारणश्चाभिधेयात्मा प्रधानपरमार्थस्तत्र यद्यभिधानात् तुल्यार्थात् प्रकृतिप्रत्ययभेदाल्लिङ्गादिभित्रमभिधेयात्मानं प्रतिपादयतीति भावः। क्रिया कर्मेति, तदा लिङ्गं वचनं वा क्षेप्तव्यं स्यादिति, इतरथा हि भावे घञादयः इति भूते क्तादयः 'स्त्रियां भावे क्तिः, नपुंसके भावे क्तः" (४।५७२,९३) इति सामानाधिकरण्यं न स्याद् इतरोऽभिधेयात्मा प्राधान्यादर्थः शब्दस्य तस्मिन् प्रतिपाद्ये शब्द उपायमानं न च प्रधानमात्रं प्रधानप्रतिपादनार्थमुपात्तलिङ्गादिभिर्विशिष्यते निर्देशमात्रोपयोगिभिः स्वयमविशिष्टमर्थं प्रतिपादयतीति न्याय्यः पक्षः। तथाहि युटष्टकारानुबन्धः स्त्रियामीप्रत्ययार्थः।।११७५। [वि० प०] भावे। सर्वस्मादिति। विशेषानुपादानादित्यर्थः। सर्तिरनन्तरोऽनुवर्तते इति न देश्यम्। अत
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy