________________
कातन्त्रव्याकरणम्
इज्वद्भाव, “आयिरिच्यादन्तानाम् " ( ३।६।२०) से आकार को 'आयि' आदेश तथा
विभक्तिकार्य ।
८
१४. पायकः । पा वुण् + सि । ‘पा पाने' (१।२६४) से 'वुण्' प्रत्यय, इज्वद्भाव, 'आयि' आदेश, 'वु' को 'अक' आदेश तथा विभक्तिकार्य ॥८५६| ८५७. हन्तेस्तः [४। १ । २]
+
[ सूत्रार्थ]
'ञ् - ण्' अनुबन्ध वाले कृत्प्रत्ययों के परवर्ती होने पर 'हन्' धातुघटित नकार को तकारादेश होता है ||८५७ |
[दु० वृ०]
हन्तेर्नकारस्य तकारो भवति जनुबन्धे णानुबन्धे च कृत्-प्रत्यये परे । घात:, घातकः । कथं भ्रौणहत्यमिति ? रूढितः सिद्धिः ||८५७ |
[दु० टी०]
हन्ते॰ । तिप् सुखार्थ एव । कथमिति " क्विब् ब्रह्मभ्रूणवृत्रेषु' (४।३।८३) इति क्विप्, तस्य भाव इति, "यण् च प्रकीर्तितः " ( २।६।१४ ) इति यण् । कृति णकारानुबन्धे यत् कार्यमुक्तं तद्धिते तत् कथमित्याह - रूढितः सिद्धिरिति । सञ्ज्ञाशब्दा हि तद्धिता लोकतोऽवसीयन्ते ।।८५७।
[वि० प० ]
हन्तेः । तकारोऽयमेकवर्णोऽर्थादन्ते प्रवर्तते इत्याह - हन्तेर्नकारस्येति । कथमित्यादि । भ्रूणं हतवान् इति 'क्विब् ब्रह्मभ्रूणवृत्रेषु'' (४|३|८३) इति क्विप् । भ्रूणघ्नो भाव इति यण् तद्धितः ।।८५७।
[क० च० ]
हन्तेः। श्तिप्निर्देशः स्वरूपग्राहक:, तेन 'जङ्घानक:' इत्येव भवतीति वररुचिः । स्वमते सुखार्थः, भाषायां लुगन्तचेक्रीयितानादरात् 'जङ्घानक:' इति 'प्रत्ययलुकाञ्चानाम्'' (४।१।४) इति न दीर्घप्रतिषेधः । नञा निर्दिष्टमिति वररुचिः । तन्त्र, निर्निमित्ते चेक्रीयितस्य लोपात् कुतः प्रत्यये लुग् येषामेकदेशस्येति घटते । पञ्जिका-तकारोऽयमिति । अर्थाद् युक्तित इत्यर्थः। युक्तिः पुनरियं हन्तिरित्यकरणाद् हन्धातोस्तिर्भवतीत्यर्थः । यद् वा 'तड आघाते' (९।३०) इति निर्देशादित्यर्थः ।। ८५७।
[समीक्षा]
‘घात:, घातकः' इत्यादि शब्दरूपों के सिद्ध्यर्थ हन्- धातुघटित नकार के स्थान में तकारादेश की आवश्यकता होती है, इसकी पूर्ति दोनों ही शाब्दिकाचार्यों ने की है। पाणिनि का सूत्र है “हनस्तोऽचिण्णलोः” (अ० ७।३।३२) । कातन्त्रव्याकरण में
-