________________
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः
४२२ [क० च०]
शन्त्रानौ० । वर्तमाने शन्तृङित्यादिना यावेतो शन्त्रानौ तावेव भविष्यतः, म्यन संहितौ भवत इति, न तु अन्यो स्वतन्त्रौ विधीयते । तेनाप्रथमैकाधिकरणे एव प्राय एतौ भवतः। नञोऽनित्यत्वादिह लक्ष्यानुसारेणैव प्रथमैकाधिकरणे, अन्यथैतन्त्र लभ्यते। तथा यदि स्वतन्त्रावेतौ स्याताम् , तदा कर्मोपपदे कटं करिष्यन् व्रजतीत्युपपदसमासेऽनिष्टं स्यात्। स्थितौ तु न भवति। वर्तमाने इत्यादिना विहितयोः शन्तृङानशोरिति स्येन शब्देन साहित्यं क्रियते न तु तौ विधीयते । न च कर्मोपपदत्वमस्ति, अत एव कर्म करिष्यन् व्रजतीति उदाहतम्। यद् वृत्तौ उपपदमित्युक्तं तदप्युपोच्चारि पदमित्यर्थः, न तूपकारि पदमिति ।
अथ स्वतन्त्रप्रत्ययाभावे किं प्रमाणं चेदुच्यते- शकारकरणबलात्, अन्यथा स्यशब्देन व्यवधानेनैव सार्वधातुकवत् कार्यं न भविष्यति किं शकारानुबन्धेनेति? तस्माच्छकारो बोधयति - शन्तृङिति स्वतन्त्रः । तत्साहचर्यादानोऽपि न स्वतन्त्रः,किन्तु पूर्वोक्त एव, तर्हि उक्तशानङ्कानयोरप्यानो विद्यते तस्यापि ग्रहणं स्यादित्याह - शन्तृङिति । शेषशब्दोऽन्यार्थः, यत्र शेषाः कर्मकरणेत्यादौ, तद्विशेषः उक्तापेक्षयाऽन्यः, ततश्चातीतोऽप्यन्यो भविष्यति, तस्मिन्नपि स्यात् । नैवम् , कर्मक्रियोपपदे भविष्यतोऽन्यः कर्मक्रियोपपदयोरन्यत्वे सति य: केवलो भविष्यनित्यथों विशेषणान्यत्वमेव गम्यते । यथा लोहिताद् गोरन्यमानयेत्युक्ते वर्णान्तरविशिष्टो गौरेवानीयते । तथा च "अन्यस्माल्लुक" (२।४।३) इत्यकारान्ताद् योऽन्योऽव्ययीभाव इति । एतेन शेषे केवले भविष्यतीत्यर्थः, नात्र युगपदुपपदत्वं कारणाभावात् । पूर्वत्र तु कर्मग्रहणादुक्तम् , तत्राह - करिष्यनिति क्रियोपपदे इदमुदाहरणम्, आनश्च क्रियापेक्षायामित्यनेनैव शन्तृङानशौ । शेषे चेत्यस्य मलोदाहरणम -करिष्यन्तं व्रजतीति । क्रियोपपदमस्तीति वाच्यम् , तदपेक्षाया अनभिधानात् करिष्यन्निति प्रथमैकाधिकरणे यदुक्तं तन्ना निर्दिष्टमनित्यमिति न्यायात् तदर्थं क्रियमाणमेतदपि विषयीकरोतीति हेमः।
__ स्यादीति पञ्जी। ननु स्यादीत्युक्तम् - आदिशब्दोऽवयवार्थ इत्यवयवत्वेनाव्यवधानात् करिष्यनित्यादौ इडभावे विकरणश्च स्यात् , तदा शकारकरणादेव न स्वतन्त्राविति यदुक्तं तदपि निरस्तम् , शकारस्य सार्वधातुकवत् कार्यत्वात् । नैवम्, आदिशब्दोऽयं समीपवचन: इति नावयवार्थः शन्तृङानशोरिति । तेनेडभावेन शकारस्य कार्यान्तरत्वात् । अथ शकारग्रहणादेव शन्तृङानशोर्ग्रहणादेतल्लभ्यते किं संहिताग्रहणेन? सत्यम् , सुखार्थम्। दुःखं पुनरेतद् आदिशब्दोऽयं समीपवचनोऽवयववचनो वेत्यत्रापि "भविष्यति भविष्यन्त्याशी:' (३।१।१५) इति ज्ञापकमूह्यमिति । साहित्यं परेणापि घटते इति कथं पूर्वेणैवेति निश्चयः इति पक्षे स्थितावपि इदं ज्ञापकमिति चेत् तथापि वैचित्र्यार्थम् ।। ११७२ । ।। इत्याचार्यसुषेणविद्याभूषणकविराजविरचिते कलापचन्द्रे चतुर्थे कृत्प्रत्ययाध्याये
चतुर्थः कवन्सुपादः समाप्तः ।।