________________
४२०
कातन्त्रव्याकरणम्
११७२. शन्त्रानौ स्यसंहितौ शेषे च [४।४।७२] [सूत्रार्थ
क्रियार्थक क्रिया तथा कर्म के उपपद में रहने पर अथवा उपपद के न रहने पर भी भविष्यत् अर्थ में वर्तमान धातु से 'स्य' के साथ ‘शन्तृङ्' एवं ' आनश्' प्रत्यय होते हैं।। ११७२ ।
[दु० वृ०]
शन्तृङ्सहचरित आन इह गृह्यते । क्रियायां क्रियार्थायां कर्मणि चोपपदे शेषे च भविष्यदर्थे वर्तमानाद् धातो: शन्तृङानशो स्येन संहितो भवतः । करिष्यन् व्रजति, करिष्यमाणो व्रजति । कटं करिष्यन् व्रजति, कटं करिष्यमाणो व्रजति। शेषे चकरिष्यन्, करिष्यमाण:, हे करिष्यन् ! हे करिष्यमाण ! ।। ११७२ । ।। इत्याचार्यदुर्गसिंहप्रणीतायां कातन्त्रवृत्तौ चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः
क्वन्सुकानपादः समाप्तः।।
[दु० टी०]
शन्त्रानौ०। कानशानङावुत्सुष्टानुबन्धौ, तयोरिह न ग्रहणमित्याह-शन्तृङित्यादि। शेष इहान्यवचनः, यथा शेषाः कर्मकरणेत्यत्र । न चोपपदं किन्तर्हि क्रियोपपदाद् भविष्यतोऽन्योऽभविष्यन् शेषस्तत्राप्येतो शन्त्रानो स्यसंहितावित्यर्थः । चशब्देनात्र समुच्चयः क्रियते क्रियायामुपपदे क्रियार्थायां भवतः, शेषे चेति वाक्यद्वयं योगविभागेनापि सिध्यति चकारः सुखावबोधार्थः। 'शन्त्रानो स्यात्' इति सिद्धे संहिताग्रहणमाभ्यां तुल्यकक्षार्थं स्याद् अप्रथमैकाधिकरणेष्विति ।।११७२। ।। इत्याचार्यदुर्गसिंहप्रणीतायां कातन्त्रवृत्तिटीकायां चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः
क्वन्सुकानपादः समाप्तः ।।
[वि० प०]
शन्त्रानो० । कानशानङोरप्युत्सृष्टानुबन्ध आनोऽस्ति, स कथन्न गृह्यते इत्याहशन्तृङ् इत्यादि । ‘स्यादि' इति सिद्धे संहिताग्रहणं शन्तृङानशाभ्यां स्यशब्दस्य तुल्यसम्बन्धार्थम् । तेनानेनापि अप्रथमैकाधिकरणादिषु स्यसंहितौ शन्तृङानशौ भवतः।। प्रथमैकाधिकरणेऽपि क्वचित् तत्र ना निर्दिष्टस्यानित्यत्वात् ।।११७२। ।। इति श्रीमत्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्जिकायां चतुर्थे कृत्प्रन्ययाध्याये
चतुर्थः क्वन्सुकानपादः समाप्तः।।