________________
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः
[दु० टी० ]
O
कर्मणि । सामान्याणि सिद्धे पुनर्वचनं क्रियायामुपपदे क्रियार्थायां वुण्बाधनार्थमणपवादाः कादयः परत्वेनाणा बाध्यन्ते इत्याह-गोदायो व्रजतीत्यादि । अथ किमर्थश्चकारः क्रियायां क्रियार्थायामिति वचनादनुवर्तिष्यते । केवले हि कर्मणि भविष्यत्यपि तेनैवाणः सिद्धत्वान्न पर्यायप्रसङ्गस्तर्हि कुम्भकारो व्रजतीत्युपपदसमासो न स्यात्, प्रत्येकमुपपदसञ्ज्ञाभावात् ।। ११७१ ।
[वि० प० ]
कर्मणि । "कर्मण्यण् " ( ४।३।१) इति सामान्येनाण् विहितः । क्रियायां क्रियार्थायामुपपदे विशेषविहितेन वुणा बाधितो न स्याद् इति पुनरण् विधीयते, सोऽप्यपवादत्वाद् वुणं बाधते, तथा येऽपि सामान्यविहितस्याणोऽपवादभूताः कादयः प्रत्ययाः, तद्विषयेऽपि परत्वादयमणित्याह- गोदाय इत्यादि । "आतोऽनुपसर्गात् कः, समि ख्यः, गष्टक्, सुरासीध्वोः पिबते: " (४।३।४, ८, ९, १०) इत्येते न भवन्ति ।। ११७१ ।
[क० च०] कर्मणि० ० । चकारात् क्रियायां क्रियार्थायामिति स्वातन्त्र्येणानुवर्तते यद्यपि, तथापि युगपदेकोपपदत्वम्, न स्वतन्त्रत्वेन, कर्मग्रहणानर्थक्यप्रसङ्गात् । केवले कर्मणि अण् सिद्ध एव तर्हि चकारो व्यर्थ: कर्मग्रहणादेव क्रियार्थक्रियोपपदे भविष्यति । अन्यथा केवले कर्मणि सिद्ध एव? सत्यम्, प्रत्येकमुभयोरुपपदसंज्ञार्थश्चकारः, अन्यथा द्वयोरुपपदत्वे कर्मभूतेन नाम्ना सह समासो न स्यात् तस्य स्वतन्त्रोपपदत्वाभावात् । चकारे सत्येकयोगे क्रियायां क्रियार्थायामुपपदे कर्मणि चेत्युक्ते सर्वमनवद्यमिति टीकायामुक्तम्, तर्हि कथं कटं कारको व्रजतीति विशेषत्वादेवास्य विषय इति न देश्यम् । नन्वत्र कर्मोपपदे वुण् कृतः किं तर्हि पश्चात् कर्मविवक्षा । यदि तु कर्मण उपपदत्वम्, तदा टीकाकारेणातीते घटकारो व्रजतीत्येवं स्यात् ॥ ११७१ ।
"
[समीक्षा]
I
“काण्डलावो व्रजति' इत्यादि शब्दरूपों के सिद्ध्यर्थ भविष्य अर्थ में 'अण् प्रत्यय के विधान-हेतु दोनों ही आचार्यों ने सूत्र बनाए हैं । पाणिनि का सूत्र है- "अण् कर्मणि च (अ० ३।३।१२) । व्याख्याकारों ने इस सूत्र को बनाने का प्रयोजन स्पष्ट किया है । इस प्रकार उभयत्र समानता ही है।
""
[रूपसिद्धि]
४१९
१-५. काण्डलावो व्रजति । काण्ड लू + अण् + सि । गोदायो व्रजति । गो
+ दा+ अण् + सि । गोसंदायो व्रजति । गो + सम् + दा + अण्
सि । सामगायां
+
+
T
+ गा
व्रजति । सामन् पा अण् + सि । सुरापायो व्रजति । सुरा अण् सि । 'काण्ड' आदि कर्म कारक के उपपद में रहने पर 'लू' आदि धातुओं से अण् ' प्रत्यय तथा विभक्तिकार्य । । ११७१ ।
+