________________
४१८
कातन्त्रव्याकरणम्
विशेषणेन लिङ्गादिना विहिता घञादयस्ते प्लेनैव यथा स्युरिति वाचिग्रहणम्। अन्यथेह विशेषानुपादानाद् धातुमात्राद् अविशेष वेव ते भवेयुरिति । पाकायेत्यादि। "तुमर्थाच्च भाववाचिनः'' (२।४।२८) इति चतुर्थी । तुमीत्यादि । ननु वासरूपेण भाववाचिनोऽपि भविष्यन्तीत्याह - वासरूप इति । तथा चानन्तरसूत्रे वुण्ग्रहणेन ज्ञापितमिति ।।११७०।
[क० च०]
भाव०। भाव इत्युच्यतामिति पञ्जी। नन्वेवं कृतेऽधिकृतत्वाद् भावे वुण भवतीत्यर्थः कथन्न स्यात् ? नैवम् , तदा पूर्वत्रैव भावे चेति कुर्यात् , चकारात् कर्तर्यपि, तथापि कथं घञादयो निश्चिताः ? सत्यम् , अर्थवशाद् भावे कृत्प्रत्ययो भवन् प्रत्यासत्त्या भावे विहितघञादिरेव भविष्यति । अथवा भाव इति प्रथमैकवचनं कर्तव्यमिति त्रिलोचनाशयः। ततश्च भावविहितकृत्प्रत्यया भाव इत्युपचारात् । तथा च टीकायामुक्तम् - भाव इत्यास्तामिति लिङ्गादिनेति । लिङ्गं स्त्रीत्वादि । आदिशब्देनोपसर्गानुसर्गावुच्यते इति शेष:। अन्यथेति । वाचिग्रहणं विना पुंस्यपि क्ति: स्यात् , स्त्रियामपि घञ् स्यात्। संरावाय व्रजतीति उपसर्गेऽपि घञ् स्यात् । भावाय व्रजतीत्यनुपसर्गेऽपि घञ् स्यादित्यर्थः। "उपसर्गे रुवः' (४।५।७) इत्यनेनोपसर्गे एव रौतेर्घञ् इत्युक्तेः । तथा श्रिनीभूभ्योऽनुपसर्ग एव भवतेरिति कृतोऽन्यत्र प्रसङ्गः । अत्रापि यस्य यदुक्तं तस्य तदेवोच्यते, तदा सुखार्थम् ।।११७०।
[समीक्षा०]
'पाकाय व्रजति' इत्यादि शब्दरूपों को भविष्यदर्थ में सिद्ध करने के लिए दोनों ही आचार्यों ने सूत्र बनाए हैं । पाणिनि का सूत्र है-“भाववचनाश्च' (अ० ३।३।११)। अत: उभयत्र समानता है ।
[रूपसिद्धि]
१. पाकाय व्रजति। पच् + घञ् + ङे । इ पचष् पाके' (१।६०३) धातु से घञ् प्रत्यय, अकार को दीर्घ, चकार को ककार तथा विभक्तिकार्य ।
२. पक्तये व्रजति । पच् + क्ति + ङे । 'पच् ' धात से क्तिन् , चकार को ककार तथा विभक्तिकार्य ।
३. पचनाय व्रजति । पच् + ल्य् + उ । 'पच् आत् से 'ल्यु' प्रत्यय, 'यु' को 'अन' आदेश तथा विभक्तिकार्य || ११७० ।
११७१. कर्मणि चाण [४।४।७१] [सूत्रार्थ
क्रियार्थक क्रिया तथा कर्म कारक के उपपद में रहने पर भविष्यदर्थक धातु से अण् प्रत्यय होता है ।। ११७१ । ___ [दु० वृ०]
क्रियायां क्रियार्थायामुपपदे कर्मणि च भविष्यत्यर्थे वर्तमानाद् धातोश्चाण भवति। काण्डलावो व्रजति, गोदायो व्रजति . गोसंदायो व्रजति, सामगायो व्रजति, सुरापायो व्रजति।।११७१।