SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ४१६ कातन्त्रव्याकरणम् सम्भवतीति । अर्थात् तद्वाचकभूप्रभृतावुपपदे इत्यर्थः । भिक्षिष्ये इति कथमेतत्, अहं भिक्षिष्ये इति कृत्वाऽस्य जटा इति ? सत्यम् । अयमर्थः - यस्य देवदत्तस्य जटास्ति तेनोच्यते - अहं भिक्षिष्ये इति कृत्वा देवदत्तसम्बन्धिनो वाक्यस्यानुवादोऽयमेवं पक्ष्यामीत्यादावपि । धावत इति । नन्वत्र प्रत्यासत्तिन्यायादन्तरङ्गसम्बन्धाच्च यत्र प्रकृतिभता क्रिया उपपदक्रिया चैककर्तृनिष्याद्या तत्रेवास्य विषयः । अत्र त भिन्नकर्तृकत्वात् कथं प्राप्तिरिति व्यङ्गविकलमिदं प्रत्यदाहरणमिति ? सत्यम् , नात्र धावनक्रियोपपदभूता, किन्तु अध्याहृता स्थितिक्रिया । धावतस्ते स्थितो दण्ड: पतिष्यतीत्यर्थ इति कश्चित्। तदसत् , न चासौ पतनमुद्दिश्य धावाति पञ्जिकाग्रन्थासङ्गतः। वस्तुतस्तु धावन् स्खलिष्यतीति धावत: स्खलनमिति प्रत्युदाहरणं बोध्यम्। धावतस्त इति। तदर्थं क्रियमाणम् एतदपि विषयीकरोतीति न्यायादक्तमिति गुरवः। केचिद् आहुः - भिन्नकर्तृकायामपि स्यात्। तथा च प्रयोग: कंसं हन्तं नारायणं कथक: प्रयुङ्क्ते, होमं कर्तुं भवन्तमहं वृणे, तथा प्रभुणा भोक्तुं मांसं क्रीणन्तीत्यादि। सागरोऽपि "इच्छार्थ०'' (४।५।१०६) इत्यादिसूत्रे तदेव वक्ष्यति। कश्चिद् आह - एककर्तृक एव विधिरत्र, कंसं हन्तुमित्यादौ तु स्थितिपदाध्याहारेणान्वयः। विशेषस्तु "इच्छार्थेषु०" (४।५।१०६) इत्यत्र वक्ष्यामः। अथ पञ्जिका - वुण इति। न वुणि तुमर्थ इति षष्ठी निषिद्धा, सा यथा स्यादिति वण्ग्रहणं वाच्यम्। नैवम् , इत्याह - एतेनेति। इह मा भूदिति। अत्रानिर्दिष्टकालत्वादेव भविष्यत्त्वप्रतीतिर्न त्वधिकारादिति भावः। इह पदान्तरादिति। ननु किं प्रमाणम्, अत्र पदान्तराद् गम्यते, अत्र पदादिति? सत्यम्। स्वभावादिति ऋजवः। आशंसाप्रधानोऽयं वाक्यार्थः पुत्रपौत्रस्य दर्शको भूयात्, वर्षशतस्य पूरको भूयादिति गम्यमानाद् भूयादिति पदान्तरात् प्रतीयते इति गुरवः। पुत्रपौत्रास्ते भूयासुः, वर्षशतमायुस्तव भूयादित्याशंसापरमिदं वाक्यम्। अतो भाविपुत्रपौत्रापेक्षया भाविशतवर्षापेक्षया च दर्शनस्य भविष्यत्ता प्रतीयते इति पदान्तरापेक्षया भविष्यत्ताप्रतीतेरिति गम्यते ।। _ विशेषविहितेनेति। तमेति कथं कर्तरि तृतीया कर्तर्यनञ्जीति प्रतिषेधाद उभयत्रापि षष्ठीप्रसङ्गात्। यथा चिकीर्षा पुण्यानां सताम् , भिदा तमसामर्कस्य। न च वा भावे स्त्रियामिति वाच्यम्, तस्य शेषे कृति विषयत्वात्? सत्यम्, करणे इयं तृतीया, ग्रन्थकारस्येति। करिति। यद् वा वण इति शैषिकी षष्ठी क्रियायामिति हेमः। स्त्रीलिङ्गनिर्देशबलात् क्रियायामिति लभ्यते इति भावः। ननु वुण्ग्रहणाद् वासरूपविधिर्नास्तीति किमनेन ज्ञापकेनेति क्तयुटतुम्खलर्थेषु वासरूपविधिर्नास्तीति भावः। अत्र ऋजवः क्तयुटो: प्रकरणे पठितस्यैव तमो ग्रहणं तत्र। अयं तु भिन्नप्रकरणविहितः। अत एवेच्छामि भुञ्जीतवानित्यत्र इषधातुप्रयोग एव दर्शितः इत्याहुः। वस्तुतस्तु तुम् भावे वुण् कर्तरीति कथमनयोर्वासरूपविधेः सम्भवः, समानविषयत्वाभावात्। यत्तु तत्र भुञ्जीतेति कर्तरि दर्शितम् , तदर्थं क्रियमाणमेतदपि विषयीकरोतीति न्यायादुक्तमिति भावः। तत्र वासरूपोऽस्त्रियामित्यत्र ।।११६९।
SR No.023091
Book TitleKatantra Vyakaranam Part 04
Original Sutra AuthorN/A
AuthorJankiprasad Dwivedi
PublisherSampurnanand Sanskrit Vishva Vidyalay
Publication Year2005
Total Pages824
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy