________________
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः ४१५ विधीयते तदाऽस्य भविष्यदर्थता । ‘ओदनं पाचको व्रजति' इति भविष्यदर्थेऽके निष्ठादित्वात् षष्ठी प्रतिषिध्यते । अथ भविष्यदधिकारविहितेऽके प्रतिषेधार्थम् , यथा 'पुत्रपौत्राणां प्रदर्शकः' इति षष्ठी सिद्धा भवति । नैवम् , इह पदान्तरसम्बन्धाद् भविष्यत्ता वाक्यार्थो न पदार्थ इति । अव्ययकृतो भावे भवन्तीति तुमर्थभेदादेव न बाधक: कर्तृविहितस्य वुणः शन्त्रानौ स्यसंहितौ शेषे चेति तर्हि बाधको स्याताम् , न वाऽसरूपेण समावेशात् तर्हि ज्ञापनार्थं क्रियार्थायां क्रियायामुपपदे न वाऽसरूपविधिरिति। तेन ‘पाचको व्रजति, ओदनस्य पक्ता व्रजति, विक्षिपो व्रजति' इति न भवति । एवं मनसिकृत्याह - वुण्ग्रहणमित्यादि । अक्रियार्थोपपदास्त्वेते प्रयोगा भवन्त्येव । पक्ता व्रजति, सूपकारो व्रजतीत्यर्थः । पदकारस्त्वाह - नैवायं वुण्समानार्थः स कर्तरि, अयं तु भावे । भोक्तुं व्रजतीत्यनेन समानार्थमिदम् ।।११६९।
[वि० प०]
वण ०। भिक्षिष्ये इति । भविष्यन्त्यात्मनेपदस्योत्तमपुरुषैकवचनं मध्ये इडागमः। अस्त्यत्र क्रियार्थोपपदं जटा, तद्युक्तो हि प्रायो भिक्षां सादरं प्राप्नोति, किन्तु न सा क्रिया, अपि तु द्रव्यम् । तथा धावत इति क्रियोपपदमस्ति न तु क्रियार्थम् । दण्डपतनार्थत्वाद् अस्तिक्रियार्थत्वमिति युक्तम् । अर्थशब्दो हि प्रयोजनवाची यच्च यदुद्दिश्य प्रवर्तते तत् तस्य प्रयोजनम् । न चासौ दण्डपतनमुद्दिश्य धावति, अपि तु कार्यान्तरार्थमिति नास्ति धावनस्य क्रियार्थतेति । अथ किमर्थं वुण्ग्रहणं वुण्तृचाविति सिद्धमेव ? भविष्यति यथा स्यादिति चेत , नैवम् । सोऽप्यनिर्दिष्टकालत्वाद् भविष्यतीति केन निवार्यते । एतेन ‘ओदनं पाचको व्रजति' भविष्यति विहितस्याकस्य निष्ठादिपाठे षष्ठीप्रतिषेधोऽप्युपपद्यते ।
अथ भविष्यदधिकारविहितेऽके षष्ठीप्रतिषेधो यदि स्यादिह मा भूत् - 'पुत्रपौत्रस्य दर्शकः, वर्षशतस्य पूरकः' इति, तदयुक्तम् । इह पदान्तराद् भविष्यत्ता गम्यते। अतोऽसौ वाक्याओं बहिरङ्ग इति पदार्थान्तरङ्गे भविष्यति षष्ठी प्रतिषिध्यमाना 'ओदनं पाचको व्रजति' इत्यादिष्वेव प्रतिषिध्यते। ननु कथमिह सामान्यविहितस्य वुणोऽवकाश:? यावता "शन्त्रानौ स्यसंहितौ शेषे च' (४।४।७२) इत्यपवादेन तस्य बाधा स्यात् ? सत्यम् , वासरूपविधिना भविष्यति । एवं तर्हि तृजादयोऽपि स्युरित्याह-वुणित्यादि । वुण्ग्रहणं ज्ञापयति - नेह प्रकरणे वाऽसरूपविधिरस्तीति । तेन ‘पक्ता व्रजति, विक्षिपो व्रजति' इति क्रियायां क्रियार्थायामुपपदे न भविष्यतीति सिद्धम्। विक्षिप इति। नाम्युपधलक्षण: कप्रत्ययः। इदं च न वक्तव्यमेव तुमा विशेषविहितेन वुणो बाधा स्यादिति भिन्नार्थत्वाद् वुण कर्तरि, तुम् भावे, अव्ययकृत्वादेतदेवाह - तुम्भावमेवेति ।।११६९।
[क० च०] वुण्०। क्रियैवार्थः प्रयोजनमस्येति विग्रहः । धात्वर्थः क्रिया तस्या उपपदत्वं न