________________
४१०
कातन्त्रव्याकरणम्
'जनैरविदितविभवो भवानीपतिः' इति भारवेश्च । अत्र यदि वर्तमाने क्त: स्यात् तदा कर्तरि षष्ठी स्यात् ततश्च प्रतिपदविहिताया: षष्ठ्या: समासो नास्तीति ।।११६६।
[समीक्षा]
'धृष्टः, राज्ञां मतः' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'क्त' प्रत्यय का विधान किया गया है । पाणिनि के दो सूत्र हैं - "जीतः क्तः, मतिबद्धिपूजार्थेभ्यश्च” (अ० ३।२।१८७,१८८)। इस प्रकार पाणिनीय सूत्रद्वयप्रयुक्त गौरव को छोड़कर अन्य प्रकार की तो उभयत्र समानता ही है ।
[रूपसिद्धि]
१ - ८. मिन्नः। बि मिदा + क्त + सि । क्ष्विण्णः। जि क्ष्विदा + क्त - सि । राज्ञां मतः। मन् + क्त + सि । राज्ञामिष्टः। इषु + क्त + सि । राज्ञां बुद्धः। बुध् + क्त + सि । राज्ञां ज्ञातः। ज्ञा + क्त + सि । राज्ञां पूजितः। पूज् + क्त + सि । राज्ञामर्चितः। अर्च् + क्त + सि । 'बि मिदा' इत्यादि ८ धातुओं से 'क्त' प्रत्यय तथा विभक्तिकार्य ।।११६६।
११६७. उणादयो भूतेऽपि [४।४।६७] [सूत्रार्थ
'उण् ' इत्यादि प्रत्यय वर्तमान तथा भूत अर्थ में भी साधु माने जाते हैं ।।११६७।
[दु० वृ०]
उणादयः प्रत्यया वर्तमाने भतेऽपि साधवो भवन्ति । केचिद वर्तमाने - करोतीति कारुः। एवं वातीति वायुः। केचिद् भूते - वृत्तं तदिति वर्त्म। भसितं तदिति भस्म। प्रकृतिप्रत्ययावगमो व्युत्पत्तावपि रूढित एव ।।११६७।
[दु० टी०]
उणा०। “कृवापाजिमिस्वदिसाध्यशुसनिजनिदृचरिचटिभ्य उण्' (कात० उ० १।१) इत्यारभ्य येऽभिव्यक्तास्ते उणादयः । भूतशब्दोऽयमतीतार्थः । स्वरूपार्थे तूपपदं स्यात् । नन च भूतशब्दोऽयमनेकार्थवृत्तिः, यथा 'आत्मवत् सर्वभूतेष' इति प्राणिवचन:, 'मातृभूतः, पितृभूतः' इत्युपमानवचन:, 'चत्वारि मत्वा भूतानि' इति पृथिव्यादिवचन:, 'प्रमाणभूतः' इत्युत्पत्तिवचन:, 'भूतगृहीतः' इति प्राणिविशेषवचन: । प्राणाद्यों हि भूतशब्द: कर्तृविशेषणं स्यात् , स च यथाभिधानं दृश्यते । तस्माद् भूतेऽतीतेऽर्थे वर्तमानाद् धातोरिति स्थितम् ।।
रूढिव्यवस्थां दर्शयति - केचिदित्यादि । यदि तावद् रूढिव्यवस्था किमर्थं तर्हि सूत्रमिति मन्दधियां सुखार्थमिति। प्रकृतीत्यादि । अभियुक्तैरपि न च प्रकृतयः सर्वाः संगृहीता नापि प्रत्यया इति । तथा बाहुरिति वहेरुण दृश्यते उक्तं च -