________________
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः
४११ सज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे ।
कार्यैर्विद्यादनूबन्धमेतच्छास्त्रमणादिषु ।। संज्ञाशब्दा ये लोकप्रयोगास्तेषामनमाने नावगतिरिति । कार्यैर्विद्यादनबन्धमिति
नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम् ।
यन्न पदार्थविशेषसमुत्त्थं प्रत्ययतः प्रकृतेश्च तदह्यम् ।। इति निरुक्तकारो 'नाम' इति शब्दानपि धातोर्निर्णीतान् मन्यते, तदेतद् व्याकरणाचार्याणामभिप्रायो न भवतीत्यत आह-शकटस्याचार्यस्य तोकमपत्यं शाकटायनो वैयाकरणो नाम धातुजमेव मन्यते, यच्च पदार्थविशेषेण न समुत्थितम्, यस्य प्रकृतिप्रत्ययो न विहितौ तस्यापि प्रकृतिप्रत्यायावुन्नेतव्यावन्यत्र दर्शनादिति । उणादय इति । इहाव्युत्पन्ना एवेति दर्शनं मतान्तरेण सूत्रमिति भावः ।।११६७।
[वि० प०]
उणा०। केचिदित्यादि । “कृवापाजिमिस्वदिसाध्यशूइसनिजनिचरिचटिभ्य उण्" (कात० उ० १।१)। एवं पायुः, जायुः, मायुः, स्वादुरित्यादि । उणो णानुबन्धत्वादिज्वद्भावे वृद्धिरादेशः । वर्त्म, भस्मेति । सर्वधातुभ्यो मन् । प्रकृत्यादि । व्युत्पत्तिपक्षेऽपि रूढिमाश्रित्य प्रकृतिप्रत्ययाववगन्तव्याविति । एतदुक्तं भवति। औणादिका हि संज्ञाशब्दास्ते चान्तरेणैव व्युत्पत्तिं लोके विशिष्टविषयतया प्रसिद्धा इति। नेह तेषां व्युत्पत्तिः क्रियते, न च ते शक्या व्युत्पादयितुम्, यदृच्छाशब्दानामनन्तत्वात्। अत एवेदं मतान्तरेण सूत्रान्तरं प्रणीतम्। येऽप्यमीषां व्यत्पत्तिमाद्रियन्ते न तैरपि साकल्येन प्रकृत्यादयो दर्शिताः, अशक्यत्वात्। अतस्तेऽपि रूढिमेव प्रतिपन्नाः इति भावः। वहेरनुक्तोऽप्युण प्रत्ययो दृश्यते - बाहुरिति । तदुक्तम् -
नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकम् ।
यन्न पदार्थविशेषसमुत्त्थं प्रत्ययतः प्रकृतेश्च तदूह्यम् ।। । अस्यार्थः- निरुक्तकारः स्वस्मिन् शास्त्रे निरुक्ते नाम च धातुजमाह - चकारो भिन्नक्रमेऽवधारणे वा लिङ्गशब्दान धातोरेव जातानाह - न केवलं स्वशास्त्रे निरुक्तकार एवमाह - शकटस्य च तोकमपत्यं शाकटायनोऽप्याचायों व्याकरणे नाम च धातुजमेवाहयत् पुनरप्रतिपादितप्रकृतिप्रत्ययविशेषरूपं तस्य कथं धातुजत्वं निश्चेतव्यमित्याहयन्नेति। प्रकृत्यादिः पदार्थ उच्यते। पदमर्थः प्रयोजनमस्येति कृत्वा स हि पदसिद्धयर्थमुपादीयते। पदार्थस्य विशेष: पदार्थविशेषः समुत्थानं समुत्त्थं स्थास्नापिबतिव्यधिहनिभ्य: क: स्यादिति वक्ष्यमाणवचनात् कप्रत्ययः। पदार्थविशेषात् समुत्त्थं प्रादुर्भावो यस्य तत् तथोक्तम्, यौवं विधमिति। एतदुत्तं भवति। यदप्रतिपदातिप्रकृतिप्रत्ययविशेषमनासादितात्मनिष्पत्तिकं शब्दरूपं तस्यापि धातुजत्वमूह्यम् ऊहनद्वारेण विज्ञातव्यम्, प्रत्ययात् प्रकृतेश्चेति। ऊहश्चायं क्वचिदपि तु लोकप्रसिद्धेषु सज्ञाशब्देषु प्रकृतिप्रत्ययकल्पनया कर्तव्यः। यथोक्तम् -