________________
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः
-
[क० च० ]
,
अन्यत्र
ञ्यनुबन्ध०। ननु मतिबुद्धिशब्दौ 'बुद्धिर्मनीषा धिषणा धीः' इत्येकपर्यायपठितौ समानार्थौ लक्ष्येते तदनयोरेकोपादानेनैव सिद्धं किमुभयोरुपादानेनेति भेदं प्रतिपादयन्नाह मतिरिच्छेति । अथ तथापि को भेद इति चेद् उच्यते - ज्ञानमिच्छायाः कारणम् इच्छा तत्कार्येति । तथाहि आदौ घटज्ञानमुत्पद्यते तदनन्तरं तत्कारणा इच्छा जायते । ततश्च प्रयत्न इति । तथा च ज्ञानेच्छाकृतीनां तुल्यकालेऽविषयत्वादिति भेदः । कश्चिद् आह - यद्यपीच्छाज्ञानाभेदस्तथापि द्वयोरेवोपादानाद् बोधयति ज्ञानार्थस्य ग्रहणेनेच्छार्थस्य न ग्रहणम्, तेन "ध्रौव्यगतिबुद्धि ०" (कात० परि० का० १८) इत्यादिसूत्रेण एषयत्यौषधम् आतुरेण भिषक् । बुद्ध्यर्थे आतुरेणेति कर्तरि न तृतीया, भावे कर्मणि कर्तरीति । 'मिन्त्रः, क्ष्विण्णः' इत्यकर्मकलक्षण: कर्तरि क्तप्रत्यय:, ‘राज्ञां मतः' इति कर्मणि । ननु कथमिदमुक्तम् अनन्तरत्वात् कर्तरीत्यधिकाराद् वर्तमाने काले कर्तरि क्तप्रत्ययः । न भावकर्मणोरित्यादिना भावे कर्मणि च ? सत्यम्, 'इष्टतो ह्यधिकाराणां प्रवृत्तिर्निवृत्तिर्वा' (चा० परि० पा० ४३ ) इति न दोषः । अन्यत्रापीति । “कृत्ययुटो ऽन्यत्रापि " (४।५।९२) इति वचनाद् अपिशब्दो बहुलार्थः । तेन प्रयोगानुसारेण कृतो भवन्तीत्यर्थः । भविष्यन्तीति भविष्यति काले कष्टमिति पूर्वाचार्या आहुरित्यर्थः । अत्राप्यपिरेव कारणम् । सुप्त इति । 'ञिष्वप् शये' (२।३२)। ननु ञ्यनुबन्धत्वात् सूत्रद्वारेणैव सिद्धो वर्तमाने क्तस्तत्कथम् अमृतादौ पठ्यते तथाकान्त इत्यपि इच्छार्थद्वारेणैव सिद्धम् ? सत्यम्, वर्तमानाधिकरणयो: सौत्र इत्यनेन सूत्रद्वारेण विहिते क्ते षष्ठी भवतीति वक्तव्यद्वारेण विहिते न भवति । अस्यापि यदा सूत्रद्वारेण तस्तदा षष्ठी । यथा 'ओदनपाकं सुप्तो देवदत्तस्य ओदनपाकस्य सुप्तो देवदत्तः' इति वक्तव्येन क्तस्तदा न स्यात् । यथा 'ओदनपाकं सुप्तो देवदत्तः' इति ओदनपाकः सुप्तो देवदत्तेनेत्येतदर्थम् अमृतादौ पठ्यते कालाध्वभावदेशानामकर्मकैर्योगे कर्मत्वमिति कर्मणि क्तः । स्निग्ध इति, रधादित्वादनिट्त्वम् । वर्तमान इत्येतदुक्तं भवति प्रारम्भोऽपरिसमाप्तिर्वर्तमानस्तत्र बहवः क्रियाक्षणाः सन्ति । अनागतोऽतिक्रान्तः साम्प्रतिकश्च । एषु मध्येऽतिक्रान्तं क्रियाक्षणं समुदाये वर्तमानेऽध्यारोप्य निष्ठेत्यनेनैव सिद्ध: किमनेनेति
भावः ।
४०९
,
2
अतीतविहितेति पञ्जी । ननु ञ्यनुबन्धादिभ्यो वर्तमानोक्तेन तेनातीतत्तस्य बाधनात् त्वया मतः, मया ज्ञातमित्यनिष्टं स्यात्, तत् कथमेवमुक्तम् । नैवम् असमानविषयत्वात् कथं बाध्यबाधकभावः तेन तु अतीतेऽनेन वर्तमान इति न समानविषयता । अत एव प्रयोगोऽपि दृश्यते 'वसामोऽविदिताः परैः' इति महाभारते, 'स पुण्यकर्मा भुवि पूजितो नृपैः' इति सुश्रुतस्य, 'पूर्वैः प्रहरणमष्टाविधं मतम्' इति वात्स्यायनस्य, ननु 'जनाविदितैर्भवद्व्यलीकैः' इति माघस्य,
-